पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
प्रपञ्चसारे


गतो वो बीजतामेष प्राणिष्वेवं व्यवस्थितः ।
ब्रह्माण्डं ग्रस्तमेतेन व्याप्तं स्थावरजङ्गमम् ॥ ८
नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते ।
एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥
रेफो माया बीजमिति त्रिधा समभिधीयते ।
शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ १
क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः ।
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ११
तामेनां कुण्डलीत्येके सन्तो हृदयगां विदुः ।
सा रौति सततं देवी भृङ्गीसङ्गीतकध्वनिः ॥ १२
आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः ।
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ १३
चराचरस्य जगतो बीजत्वाद्बीजमेव तत् ।
मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ १४
रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः ।
हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ १५


1. संकिपी: