महाभारतम्-05-उद्योगपर्व-142

विकिस्रोतः तः
← उद्योगपर्व-141 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-142
वेदव्यासः
उद्योगपर्व-143 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कृष्णेन कर्णंप्रति पाण्डवजयनिर्धारणकथनपूर्वकं भीष्णादिषु युद्धसन्नाहसंदेशकथनचोदना ।। 1 ।।




वैशंपायन उवाच।

5-142-1x

कर्णस्य वचनं श्रुत्वा केशवः परवीरहा।
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ।।

5-142-1a
5-142-1b

श्रीभगवानुवाच।

5-142-2x

अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ।।

5-142-2a
5-142-2b

ध्रुवो जयः पाण्डवानामितीदं
न संशयः कश्चन विद्यतेऽत्र।
जयध्वजो दृश्यते पाण्डवस्य
समुच्छ्रितो वानरराज उग्रः ।

5-142-3a
5-142-3b
5-142-3c
5-142-3d

दिव्या माया विहिता भौमनेन
समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
दिव्यानि भूतानि जयावहानि
दृश्यन्ति चैवात्र भयानकानि ।।

5-142-4a
5-142-4b
5-142-4c
5-142-4d

न सञ्जते शैलवनस्पतिभ्य
ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान्ध्वजः कर्ण धनञ्जयस्य
समुच्छ्रितः पावकतुल्यरूपः ।।

5-142-5a
5-142-5b
5-142-5c
5-142-5d

यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ।।

5-142-6a
5-142-6b

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

5-142-7a
5-142-7b

यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ।।

5-142-8a
5-142-8b

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

5-142-9a
5-142-9b

यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ।।

5-142-10a
5-142-10b

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

5-142-11a
5-142-11b

यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनंच राजानं सैन्धवं च जयद्रथम् ।।

5-142-12a
5-142-12b

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

5-142-13a
5-142-13b

यदा द्रक्ष्यसि सङ्‌ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ।।

5-142-14a
5-142-14b

विगाढे शस्त्रसंपाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

5-142-15a
5-142-15b

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ।।

5-142-16a
5-142-16b

सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ।।

5-142-17a
5-142-17b

सप्तमाच्चापि दिवसादमावास्या भविष्यति।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ।।

5-142-18a
5-142-18b

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः।
यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम् ।।

5-142-19a
5-142-19b

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ।।

5-142-20a
5-142-20b

[सम्पाद्यताम्]

5-142-4 भौमनेन विश्वकर्मणा ।। 5-142-18 संग्रामः संग्रामसाधनकलापः । बुज्यतां एकीभूयावतिष्ठताम् ।।

उद्योगपर्व-141 पुटाग्रे अल्लिखितम्। उद्योगपर्व-143