पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ प्रस्तावः ॥

इह खलु जगति सर्वे मनुष्यप्रभृतयः स्थावरान्ता. प्रादुर्भवन्तो परिणममानास्ति- रोभवन्तश्चैकसूत्रनिगडिताः सन्तो वर्तन्तामितीय जगत्पालयितुरिच्छा दृश्यते आपाततस्तु तिर्यञ्च. स्थावरा ये चामीभ्यः प्रत्यञ्चो ब्राह्मणक्षत्राविट्दास्ते सर्वे भिन्नां भिन्नां सरणिमनुरुन्धाना व्यवहरन्ति, नह्येतावदपि तु प्रतिपिण्डं भिन्ना इति प्रतिभा- सन्ते स्थूलदृशां, एवमपि सूक्ष्मविचारणायामेकसूत्रनियन्त्रितन्वमेव मुसमन्जसं भवति । तद्यथा-ते ते जनिमन्तस्तादृशी तादृशी योनिमापन्नास्तत्तदाकाररूपपरिमाणशीला अवलोक्यन्ते । नहि कदाचित्केनचित्स्थावरो मानुषाकारादिभाग्दृष्टः । नवा मनुष्यस्ति- र्यग्धर्ममुगृहन्दृश्यते। तदेवं निपुण निरूप्यमाणे किमप्येक सूत्रमालम्बयन्निद जगत्स्वेषु स्वेष्वधिकारेषु नियत वर्तत इति स्थिरीभवति । तदेवाधिष्टानभूत सूत्र प्रति धर्म इत्याचक्षते मनुव्यामवसिष्ठादयः परमर्षयः । तथा 'धर्मे सर्व प्रतिष्ठितम्' इति ब्रुवन्व्यक्त सर्वशब्दवाच्यजगत्प्रतिष्ठाकारणं धर्म इत्याख्यापयति । सर्वशब्दवा- च्यस्य जगतोऽस्य विचित्रतरप्रपञ्चजालरचनायास्तद्भावे सत्त्वात्तदभावे चाभावा- युक्तमेवैतत् । पञ्चमवेदाभिख्यस्यातिगभीरस्य सर्वज्ञानाकरस्य भारतस्यापि तात्पर्यमिदमेवेति ज्ञातव्यम् । यथाहि 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेजीवितस्यापि हेतोः। धर्मों नित्यः सुखदुःखे त्वनित्ये ' इति भारतसावित्रीत्वेन वसन्ते पिक इव पञ्चम, मधुरं जेगीयते ततोऽवगच्छाम धर्मः परमं कारणमिति । भगवानपि 'खे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः' इति कर्मशदेन धर्ममभिलपस्तदभिरतो निःश्रेयसं लभत इत्यर्जुनाय निकभक्तायोपदिदेश । अयमेवार्थः श्रुतिस्मृतीतिहासपुराणेष्वाहलाहत्योद्धोष्यत इति विपश्चिद्वरैः समीक्षणीयम् । तस्मात्पूर्वपूर्वार्जितधर्मेण तां तां दैवीं मानुषी वा नारकी वा प्रतिनियतस्त्रभावफलविचित्रां स्थिति सर्वो लभत इत्युपपद्यते । न ह्येतत्सर्वतन्त्रसिद्धमर्थमनभ्युपगम्यमानैलॊकस्थितिकारणमनुगतं सुवचं समजसं चोदाहर्तुं शक्यमिति तन्त्रनिपुणैविचक्षणवरेण्यः समीक्षणीयमित्यप्रासङ्गिकविस्तारभियोपरम्य प्रकृतग्रन्थप्रस्ताविकोपयोगि किंचिदुल्लिख्यते ।