पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२ ] मन्वर्थमुक्तावलीसंवलिता। ४८३ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ ९२॥ यथेति ॥ शास्त्रचोदितान्यप्यग्निहोत्रादीनि कर्माणि परित्यज्य ब्रह्मध्यानेन्द्रिय- जयप्रणवोपनिषदादिवेदाभ्यासेपु ब्राह्मणो यत्नं कुर्यात् । एतच्चैपां नोक्षोपायान्तर- गोपायत्वप्रदर्शनार्थं न त्वग्निहोत्रादिपरित्यागपरत्वमुक्तम् ॥ ९२ ॥ एतद्धि जन्मसाफल्यं ब्राह्मणस विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ ९३ ॥ एतदिति ॥ एतदात्मज्ञानबेदाभ्यासादि द्विजातेर्जन्मसाफल्यापादकत्वाजन्मनः साफल्यं विशेषेण ब्राह्मणस्य । यस्मादेतत्याप्य द्विजातिः कृतकृत्यो भवति न प्रकारान्तरेण ॥ ९३ ॥ इदानी वेदादेव ब्रह्म ज्ञातव्यमिति प्रदर्शयितुं वेदप्रशंसामाह- पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः॥ ९४ ॥ पितृदेवेति ॥ पितृदेवमनुष्याणां हव्यकव्यान्नदानेषु वेद एव चक्षुरिव चक्षुरन- श्वरं तत्प्रमाणत्वादसंनिकृष्टफलकव्यदानादौ प्रमाणान्तरानवकाशात् । अशक्यं च वेदशास्त्रं कर्तुम् । अनेनापौरुषेयतोक्ता । अग्रमेयं च मीमांसादिन्यायनिरपेक्षतयान- वगम्यमानप्रमेयमेवं व्यवस्था । ततश्च मीमांसया व्याकरणाद्यङ्गैश्च सर्वब्रह्मा- त्मकं वेदार्थ जानीयादिति व्यवस्थितम् ॥ ९४ ॥ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः॥९५॥ या वेदबाह्या इति ॥ याः स्मृतयो वेदमूला न भवन्ति दृष्टार्थवाक्यानि चैत्यव- न्दनात्स्वर्गों भवतीत्यादीनि । यानि चासत्तर्कमूलानि देवतापूर्वादिनिराकरणात्म- कानि वेदविरुद्धानि चार्वाकदर्शनानि सर्वाणि परलोके निष्फलानि यस्मान्नरकफ- लानि तानि मन्वादिभिः स्मृतानि ॥ ९५ ॥ एतदेव स्पष्टयति- उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानिचित् । तान्याकालिकतया निष्फलान्यनृतानि च ॥ ९६ ॥ उत्पद्यन्त इति ॥ यान्यतो वेदादन्यमूलानि च कानिचिच्छास्त्राणि पौरुषेयत्वा- दुत्पद्यन्ते एवमाशु विनश्यन्ति । तानि च इदानींतनत्वान्निष्फलानि असत्यरू- पाणि च । स्मृत्यादीनां तु वेदमूलत्वादेव प्रामाण्यम् ॥ ९६ ॥ चातुर्वर्ण्य त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भव्यं भविष्यं च सर्व वेदात्प्रसिध्यति ॥ ९७॥ चातुर्वर्ण्यमिति ॥ 'ब्राह्मणोऽस्य मुखमासीत्' इत्यादिवेदादेव चातुर्वर्ण्य प्रसि-