पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ४८१ एष इति ॥ एष युष्माकं विहितप्रतिषिद्धानां कर्मणां सर्वः फलोदय उक्तः इदानी ब्राह्मणस्य निःश्रेयसाय मोक्षाय हितं कर्मानुष्ठानं इदं शृणुत ॥ ८२ वेदाभ्यासस्तपोज्ञानमिन्द्रियाणां च संयमः। अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ ८३ ॥ वेदाभ्यास इति ॥ उपनिषदादेर्वेदस्य ग्रन्थतोऽर्थतश्वावर्तनं, तपःकृच्छ्रा- दि, ज्ञानं ब्रह्मविषयं, इन्द्रियजयः, अविहितहिंसावर्जन, गुरुशुश्रूपेत्येतत्प्रकृष्ट मोक्षसाधनम् ॥ ८३ ॥ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् । किंचिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ ८४ ॥ सर्वेषामिति ॥ सर्वेषामप्येतेषां वेदाभ्यासादीनां शुभकर्मणां मध्ये किंचित्क- मातिशयेन मोक्षसाधनं स्यादिति वितर्के ऋषीणां जिज्ञासाविशेषादुत्तरश्लोकेन निर्णयमाह ॥ ८४॥ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तड्यय्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः॥ ८५ ॥ सर्वेषामिति ॥ एषां वेदाभ्यासादीनां सर्वेषामपि मध्य उपनिषदुक्तपरमार्थ- ज्ञानं प्रकृष्टं स्मृतं यस्मात्सर्वविद्यानां प्रधानम् । अत्रैव हेतुमाह । यतो मोक्ष- स्तस्मात्प्राप्यते ॥ ८५॥ षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ ८६ ॥ पण्णामिति ॥ एषां पुनः षण्णां पूर्वोक्तानां वेदाभ्यासादीनां कर्मणां मध्ये वैदिकं कर्म परमार्थज्ञानमैहिकामुप्मिकश्रेयस्करतरं ज्ञातव्यम् । पूर्वश्लोके मोक्षहे- तुत्वमात्मज्ञानस्योक्तम् , इह तु ऐहिकामुप्मिकश्रेयोऽन्तरहेतुत्वमुच्यत इत्यपौनरु- क्यम् । तथाहि प्रतीकोपासनानां संशयोदयं(?) 'नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति' । गोविन्दराजस्तु एषां पूर्वश्लोकोक्तानां वेदाभ्या- सादीनां षण्णां कर्मणां मध्यात्स्मार्तकर्मापेक्षया वैदिकं कर्म सर्वदेहपरलोके सातिशयं सातिशयेन कीर्तिस्वर्गनिःश्रेयःसाधनं ज्ञेयमिति व्याख्यातवान् । तद- युक्तम् । वेदाभ्यासादीनां षण्णामपि प्रत्येकं श्रुतिविहितत्वात् । तेषु मध्ये स्मार्ता- पेक्षया किंचिदेवं किंचिच्च नेति न संभवति । ततश्च कथं निर्धारणे षष्टी। तस्मा- यथोक्तैव व्याख्या ॥ ८६ ॥ इदानीमैहिकामुधिमकश्रेयःसाधनत्वमेवात्मज्ञानस्य स्पष्टयति- वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः। अन्तर्भवन्ति क्रमशस्तसिंस्तस्मिन्क्रियाविधौ ॥ ८७॥ मनु०४१