पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ४७३ वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः । धर्मक्रियात्मचिन्ता च सात्विकं गुणलक्षणम् ॥ ३१ ॥ वेदाभ्यास इति ॥ वेदाभ्यासः, प्राजापत्याद्यनुष्टानं, शास्त्रार्थावबोधः मृहार्या- दिशौचं इन्द्रियसंयमः, दानादिधर्मानुष्टानं, आत्मध्यानपरता एनत्सत्वाख्यगुणस्य कार्यम् ॥ ३१ ॥ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ ३२ ॥ आरम्भेति ॥ फलार्थ कर्मानुष्टानशीलता, अल्पेऽप्यर्थे वैकुव्यं, निपिद्धकर्माचरणं अजस्रं शब्दादिविपयोपभोग इत्येतद्रजोभिधानगुणस्य कार्यम् ॥ ३२ ॥ लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ ३३ ॥ लोभ इत्यादि ॥ अधिकाधिकधनस्पृहा, निद्रात्मता, कातर्य, पैशुन्यं, परलो- काभावबुद्धिः, आचारपरिलोपः, याचनशीलत्वं, संभवेपि धमीदिप्वनवधानं, इन्येतत्तामसाभिधानस्य गुणस्य लक्षणम् ॥ ३३ ॥ त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् । इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ ३४ ॥ त्रयाणामपीति ॥ एषां सत्त्वादीनां त्रयाणामपि गुणानां त्रिषु कालेषु भूतभविष्यद्वर्तमानेषु विद्यमानानामिदं वक्ष्यमाणसाक्षेपिकं क्रमेणे गुणलक्षणं ज्ञातव्यम् ॥ ३४॥ यत्कर्म कृत्वा कुर्वश्च करिष्यश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्व तामसं गुणलक्षणम् ॥ ३५ ॥ यदिति ॥ यत्कर्म कृत्वा, कुर्वन् , करिप्यंश्च लज्जावान्भवनि दृयोरन्यत्र वेति विवक्षितं तत्सर्वं तमःकार्यत्वात्तमोऽभिधानं गुणलक्षणं शास्त्रविदा बोद्धव्यम् ॥ ३५॥ येनासिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् ॥ ३६॥ येनेति ॥ इह लोके महतीं श्रियं प्राप्नोतीत्येतदर्थमेव यो यत्कर्म करोति न परलोकार्थ नच तत्कर्मफलासंपत्तौ दुःखी भवति तजःकार्यत्वाइजोगुणलक्षणं विज्ञेयम् ॥ ३६॥ यत्सर्वेणेच्छति ज्ञातुं यन लज्जति चाचरन् । येन तुष्यति चात्मास्य तत्सत्त्वक्षगुणलक्षणम् ॥ ३७ ॥ । कालन्नये