पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४५१ कापसकीटजोर्णानां द्विशफैकशफस च । पक्षिगन्धौषधीनां च रज्वाश्चैव व्यहं पयः ॥ १६८ ॥ कार्यासेति ॥ काांसकृमिकोशजोर्णानां वस्त्राणां द्विशफैकशफस्य गोरश्वादः पक्षिणां शुकादीनां गन्धानां च चन्दनप्रभृतीनां रज्वाश्च प्रत्येकं हरणे व्यहं श्रीराहारः स्यात् । अत्रापि पूर्ववद्विषयसमीकरणपरिहारः स्वामिनश्वोत्कृष्टापकृष्ट- व्यसमर्पणादपि वचनादेकरूपप्रायश्चित्ताविरोधः ॥ १६८ ॥ एतैव्रतैरपोहेत पापं स्तेयकृतं द्विजः। अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ १६९ ॥ एतैरिति । एतैरुक्तः प्रायश्चित्तैः स्तेयजनितपापं द्विजातिरपानुदेत् । अगम्या- रासननिमित्तं पुनरेभिर्वक्ष्यमाणैव्रतैनिहरेत् ॥ १६९ ॥ गुरुतल्पव्रतं कुयाँद्रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीप्वन्त्यजासु च ॥ १७० ॥ गुरुतल्पव्रतमिति ॥ वयोनिषु सोदर्यभगिनीषु तथा मित्रभार्यासु, पुत्रपत्नीषु, कुमारीषु, चाण्डालीषु, प्रत्येकं रेतः सिक्त्वा गुरुदारगमनप्रायश्चित्तं कुर्यात् । अत्रापि ज्ञानाभ्यासाद्यनुबन्धापेक्षया मरणान्तिकम् । अतएव रेतः सिक्त्वा कुमारीषु चाण्डालीप्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते' इनि यमेन मर- शान्तिकमुपदिष्टमज्ञानात्तद्रतम् ॥ १७ ॥ पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ १७१ ।। पैतृष्वसेयीमिति ॥ पितृप्वसुर्मातृप्वसुश्च दुहितरं भगिनी मातुश्च सोदर्यभ्रातुर्दु- हितरं सोदयभगिनीमिव निषिद्धगमनां गत्वा चान्द्रायणं कुर्यात् सकृदज्ञानव्य- भिचरिताविषयमल्पत्वात् ॥ १७१ ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनानुपेयास्ताः पतति छुपयन्नधः ॥ १७२ ।। एता इनि ॥ तित्र एताः पैतृष्वसेय्याद्या भार्यार्थ प्राज्ञो नोहहेत् । ज्ञातित्वेन बान्धवत्वेन ता नोपेतव्याः। यस्मादेता उपयन्नुपागच्छन्नरकं याति । 'असपिण्डा व या मातुः' इत्यनेन निषेधसिद्धी दाक्षिणात्याचारदर्शननिषेधदााथ पुन- बेचनम् ॥ १७२॥ अमानुषीषु पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रे सांतपनं चरेत् ।। १७३ ॥ अमानुषीप्विति ॥ अमानुषीषु वडवाद्यासु न गवि । गोष्ववकीर्णी संवत्सरं प्राजापत्यं चरेत् इति शङ्खलिखितादिभिर्गुरुपायश्चित्ताभिधानात् । तथा रजस्वलायां, योनितश्चान्यत्र स्त्रियां, जले रेतःसेकं कृत्वा पुरुषः सांतपनं कृच्छ्रे कुर्यात् ॥१७३॥