पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० मनुस्मृतिः । [अध्यायः ११ एष इति ॥ अभक्ष्यभक्षणे यानि प्रायश्चित्तानि तेषामेतन्नानाप्रकारविधानमु- क्तम् । स्तेयपापहारिणां विधानमधुना श्रूयताम् ॥ १६ ॥ धान्यानधनचौर्याणि कृत्वा कामाद्विजोत्तमः। खजातीयगृहादेव कृच्छ्राब्देन विशुद्ध्यति ॥ १६२ ॥ धान्येति ॥ ब्राह्मणो ब्राह्मणगृहाद्धान्यभक्तायनरूपाणि धनचौर्याणीच्छातः कृत्वा न त्वात्मीयभ्रान्त्या नीत्वा संवत्सरं प्राजापत्यव्रताचरणेन शुध्यति । एतच्च देश- कालद्रव्यपरिमाणस्वामिगुणाद्यपेक्षया महत्त्वादिबोद्धव्यम् । एवमुत्तरत्रापि॥१६२।। मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥ १६३ ॥ मनुष्याणामिति ॥ पुरुपतीक्षेत्रगृहाणामन्यतमहरणे कृपजलस्य वापीजलस्य वा समस्तस्य वा हरणे चान्द्रायणं प्रायश्चित्तं मन्वादिभिः स्मृतम् ॥ १६३ ।। द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः। चरेत्सांतपनं कृच्छं तनिर्यात्यात्मशुद्धये ॥ १६४ ॥ द्रव्याणामिति ॥ द्रव्याणामल्पा_णामल्पप्रयोजनानां चानुक्तप्रायश्चित्तविशे- पाणां त्रपुसीसकादीनां परगृहाच्चौर्यं कृत्वा तदपहृतं द्रव्यं स्वामिने दत्त्वा सांतपनं कृच्छ्रे प्रायश्चित्तं वक्ष्यमाणं चात्मशुद्धये कुर्यात् । स्वामिनेऽपहृतं द्रव्यं निर्यात्येति सर्वस्तेयप्रायश्चित्तशेपः ॥ ३६४ ॥ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ १६५ ॥ भक्ष्येति ॥ भक्ष्यस्य मोदकादेः, भोज्यस्य पायसादेः, यानस्य शकटादेः, श- य्यायाः, आसनस्य च, पुष्पमूलफलानां च प्रत्येकमपहरणे पञ्चगव्यपानं विशो- घनम् ॥ १६५॥ तृणकाष्ठद्रुमाणां च शुष्कानस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ १६६ ॥ तृणेति ॥ तृणकाष्टवृक्षाणां शुष्कानस्य च तण्डुला वस्त्रचर्ममांसानां मध्ये एक- स्याप्यपहरणे त्रिरात्रमुपवासं चरेत् ॥ १६६ ॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥ १६७ ॥ मणीति ॥ मणिमुक्ताविद्रुमताम्ररूप्यलोहकांस्योपलानां च प्रत्येकमपहरणे द्वादशाहं तण्डुलकणभक्षणं कुर्यात् । सर्वत्र चात्र सकृदन्यासदेशकालव्यस्वामि- गुणादौ शक्त्यपेक्षयोत्कृष्टापकृष्टद्रव्यापहारिविषयसमीकरणं समाधेयम् ॥ १६ ॥