पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ मनुस्मृतिः। [अध्यायः ११ न्विनो हत्वा विप्रं तु निर्गुणम् । अकामतस्तदा गच्छेत्स्नानं चैवाश्वमेधिकम् ॥' गोविन्दराजस्तु अश्वमेधविवर्जितसकलप्रायश्चित्तशेषतोऽस्य प्रक्रान्तद्वादशवार्षि- कप्रायश्चित्तस्यान्तरावभृथस्त्राने तेनैव शुद्धिरित्याह तदयुक्तम्, भविष्यपुराण- वचनविरोधात् ॥ ८२ ॥ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । तस्मात्समागमे तेषामेनो विख्याप्य शुद्ध्यति ॥ ८३॥ धर्मस्येति ॥ यस्माद्राह्मणो धर्मस्य कारणं ब्राह्मणेन धर्मोपदेशे कृते धर्मानुष्ठाना- द्वाजा तस्याग्रं प्रान्तं मन्वादिभिरुच्यते, ताभ्यां ब्राह्मणक्षत्रियाभ्यां समूलाग्रधर्मत- रुनिष्पत्तेः । तस्मात्तेषां समागमेऽश्वमेधे पापं निवेद्यावभृथस्नातः शुध्यतीत्यस्यैव विशेषः ॥ ८३ ॥ ब्राह्मणः संभवेनैव देवानामपि देवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ८४ ॥ ब्राह्मण इति ॥ ब्राह्मण उत्पत्तिमात्रेणैव किं पुनः श्रुतादिभिर्देवानामपि पूज्यः सुतरां मनुष्याणां लोकस्य च प्रत्यक्षवत्प्रमाणम्, तदुपदेशस्य प्रामाण्यात् । यस्सा- तत्र वेद एव कारणं वेदमूलकत्वादुपदेशस्य । यत एवमतः ॥ ८४ ॥ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसुनिष्कृतिम् । सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥ ८५ ॥ तेषामिति ॥ तेषां विदुषां ब्राह्मणानां मध्ये वेदज्ञास्त्रयोऽपि किमुताधिकाः यत्पा- पनिर्हरणाय प्रायश्चित्तं ब्रूयुस्तत्पापिनां विशुद्धये भवति । यस्माद्विदुषां वाक्पाव- यित्री ततश्च प्रकाशप्रायश्चित्तार्थं विदुषामपि परिषदवश्यं कार्या । रहत्यप्राय- श्चित्ते पुनरेतन्नास्ति, रहस्यत्वविरोधात् ॥ ८५ ॥ अतोऽन्यतममास्थाय विधि विप्रः समाहितः। ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥८६॥ अत इति ॥ अस्मात्प्रायश्चित्तगणादन्यतमं प्रायश्चित्तं ब्राह्मणादिः संयतमना आश्रित्य प्रशस्तार्थतया ब्रह्महत्याकृतं पापमपनुदति । एतच्च ब्रह्मवधादिप्रायश्चित्त- विधानं सकृत्पापकरणविषयं, पापावृत्तौ त्वावर्तनीयम् । 'एनसि गुरुणि गुरूणि लघुनि लघूनि' इति गोतमस्मरणात् । 'पूर्णे चानस्यनस्तान्तशूद्रहत्याव्रतं चरेत्' इति बहुमारणे प्रायश्चित्तबहुत्वस्य वक्ष्यमाणत्वाच्च । 'विधेः प्राथमिकादसावितीये द्वि- गुणं स्मृतम् । तृतीये त्रिगुणं प्रोक्तम्' इति गोतमस्मरणात् । गृहदाहादिना युगपद- नेकब्राह्मणहनने तु भविष्यपुराणीयो विशेषः-'ब्राह्मणो ब्राह्मणं वीर ब्रह्मणौ वा बहू- न्गुह । निहत्य युगपद्वीर एकं प्राणान्तिकं चरेत् ॥'कामतस्तु यदा हन्याद्राह्मणान् सुरसत्तम । तदात्मानं दहेदग्नौ विधिना येन तच्छृणु ॥ एतञ्चाज्ञानविषयं सर्वमेवै- तत् । तथा 'अकामतो यदा हन्याद्राह्मणान्ब्राह्मणो गुह । चरेद्वने तथा घोरे याव-