पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। सरस्वतीम् ॥ अथवा परिमिताहारस्त्रीन्वारान्वेदसंहिताम् ॥' संहिताग्रहणात्पदक्रम- व्युदासः । अत्रापि भविष्यपुराणीयो विशेषः-'जातिमात्रं तु यो हन्याद्विगं त्वम- तिपूर्वकम् । ब्राह्मणोऽत्यन्तगुणवांस्तेनेदं परिकल्पयेत् ॥ जपेद्दा नियताहारथि वेदस्य संहिताम् । ऋचो यजूंपि सामानि त्रैविद्याख्यं सुरोत्तम' ॥ ७७ ॥ इदानीं 'समाते द्वादशे वर्षे' इत्युपदेशावादशवार्षिकस्य विशेषमाह- कृतवापनो निवसेद्वामान्ते गोव्रजेपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः॥ ७८ ॥ कृतेति ॥ लूनकेशनखश्मश्रुगोब्राह्मणहिते रतो गोब्राह्मणोपकारान्कुर्वन्ग्रामस- मीपे गोष्ठपुण्यदेशवृक्षमूलान्यतमे निवसेत् । वने कुटीं कृत्वेत्यस्य विकल्पार्थमि- दम् ॥ ७८॥ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ ७९ ॥ ब्राह्मणार्थ इति ॥ प्रक्रान्ते द्वादशवार्षिकेऽन्तराग्न्युदकहिंसकाद्याक्रान्तब्राह्मणस्य गोर्वा परित्राणाथै प्राणान्परित्यजन्ब्रह्महत्याया मुच्यते । गोब्राह्मणं वा ततः परि- त्राणायामृतोऽप्यसंप्राप्तद्वादशवर्षोऽपि मुच्यते ॥ ७९ ॥ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । विग्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ ८ ॥ त्रिवारमिति ॥ स्तेनादिभिर्ब्राह्मणसर्वस्वेऽपह्रियमाणे तदानयनाथै निर्व्याज यथाशक्ति प्रयत्नं कुर्वैस्तत्र त्रिवारान् युद्धे प्रवर्तमानो नानीतेऽपि सर्वस्वे ब्रह्महत्या- पापात्प्रमुच्यते । अथवा प्रथमवार एव विप्रसर्वस्वमपहृतं जित्वार्पयति तथापि मुच्यते। यद्वा धनापहारकेण स्वेनैव ब्राह्मणो युद्धेन मरणे प्रवर्तते तदा यद्यप्यप- हृतसमधनदानेन तं जीवयति तदापि तन्निमित्ते तस्य प्राणलाभे ब्रह्महत्यापापान्मु- च्यते । एतदितरप्रकारेण तु रक्षणे गोप्ता गोब्राह्मणस्य चेत्यपुनरुक्तिः ॥ ८ ॥ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः। समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ८१॥ एवमिति ॥ एवमुक्तप्रकारेण सर्वदा नियमोपहितः स्त्रीसंयोगादिशून्यः संयंत- मनाः समाप्ते द्वादशे वर्षे ब्रह्महत्यापापं नाशयति । एवं 'ब्राह्मणार्थे' इत्यादि सर्व प्रक्रान्तद्वादशवार्षिकस्य बोद्धव्यम् ॥ ८१ ॥ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । खमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ८२ ॥ शिष्ट्येति ॥ अश्वमेधे ब्राह्मणानामृत्विजां क्षत्रियस्य यजमानस्य समागमेषु ब्रह्म- हत्यापापं शिष्ट्वा निवेद्यावभृथस्नातो ब्रह्महत्यापापान्मुच्यते, द्वादशवार्षिकस्योपसं- हृतत्वात् । स्वतन्त्रमेवेदं प्रायश्चित्तम् । तथाच भविष्यपुराणे-'यदा तु गुणवा- ..