पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ११ समिद्धे त्रिरवाक्शिराः ॥ यजेत वाश्वमेधेन क्षत्रियो विप्रघातकः । प्रायश्चित्तत्रयं ह्येतत्क्षत्रियस्य प्रकीर्तितम् ॥ क्षत्रियो निर्गुणो धीरं ब्राह्मणं वेदपारगम् । निहत्य कामतो वीर लक्ष्यः शस्त्रभृतो भवेत् ॥ चतुर्वेदविदं धीरं ब्राह्मणं चाग्निहोत्रिणम् । निहत्य कामादात्मानं क्षिपेदनाववाक्शिराः॥ निर्गुणं ब्राह्मणं हत्वा कामतो गुणवा- न्गुह । यष्ट्वा वा आश्वमेधेन क्षत्रियो यो महीपतिः' ॥ ७३ ॥ यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजियां वा त्रिवृताग्निष्टुतापि वा ॥ ७४ ॥ यजेतेति ॥ 'यजेत वाश्वमेधेन' इत्यनन्तरं व्याख्यातम् । स्वर्जिता यागविशेषेण गोसवेन वा अभिजिता विश्वजिता वा त्रिवृताग्निष्टुता वा याजयेत् । एतानि चाज्ञा- नतो ब्रह्मवधे प्रायश्चित्तानि त्रैवर्णिकस्य विकल्पितानि । तदुक्तं भविष्यपुराणे--स्व- जितादेश्च यवीर कर्मणां पृतनापते । अनुष्ठानं द्विजातीनां वधे यमतिपूर्वके॥७॥ जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुलियतेन्द्रियः ॥ ७५ ॥ जपन्निति ॥ वेदानां मध्यादेकं वेदं जपन्स्वल्पाहारः संयतेन्द्रियो ब्रह्महत्यापाप- निर्हरणाय योजनानां शतं गच्छेत् । एतदप्यज्ञानकृते जातिमात्रब्राह्मणवधे त्रैवर्णि- कस्य प्रायश्चित्तम् । तथाच भविष्यपुराणे अयमेव श्लोकः पठितो व्याख्यातश्च- 'जातिमात्रं यदा विप्रं हन्यादमतिपूर्वकम् । वेदविच्चाग्निहोत्री च तदा तस्य भवे- दिदम् ॥ ७५ ॥ सर्वखं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ ७६ ॥ सर्वस्वमिति ॥ सर्वस्वं वा वेदविदे ब्राह्मणाय दद्यात् । यावद्धनं जीवनाय सम- र्थम् । गृहं वा गृहोपयोगिधनधान्यादियुतं अतः सर्वस्वं वा गृहं वा सपरिच्छदं दद्यात् । जीवनायालं इति वचनाजीवनपर्याप्तं सर्वस्वं गृहं वा दद्यान्न ततोऽल्पम्। एतच्चाज्ञानतो जातिमात्रब्राह्मणवधे ब्राह्मणस्य प्रायश्चित्तम् । तथाच भविष्यपुरा- जम्--'जातिमात्रं यदा हन्याद्राह्मणं ब्राह्मणो गुह । वेदाभ्यासविहीनो वै धन- वानग्निवर्जितः ॥ प्रायश्चित्तं तदा कुर्यादिदं पापविशुद्धये । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ ७६ ॥ हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम् । जपेद्वा नियताहारस्त्रि वेदस्य संहिताम् ॥ ७७ ॥ हविष्यति ॥ नीवारादिहविष्यानभोजी विख्यातप्रसरणादारभ्यापश्चिमोदधेः स्रोतःप्रतिसरस्वती यायात् । एतच्च जातिमात्रब्राह्मणवधे ज्ञानपूर्वके। तथा भविष्य- पुराणे-'जातिमात्रे हते विग्रे देवेन्द्र मतिपूर्वकम् । हन्ता यदा वेदहीनो धनेन च भवेद्भुतः ॥ तदैतत्कल्पयेत्तस्य प्रायश्चित्तं निबोध मे। हविष्यभुक्चरेद्वापि प्रतिस्रोतः