पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ मनुस्मृतिः। [अध्यायः ११ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । [तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ।] धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ ३४ ॥ क्षत्रिय इति ॥ क्षत्रियः स्वपौरुषेण शत्रुतः परिभवलक्षणामात्मन आपदं निस्त- रेत्। वैश्यशूद्रौ पुनः प्रतिकत्रै धनदानेन । ब्राह्मणत्वभिचारात्मकै पहोमैः ॥३४॥ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान शुष्कां गिरमीरयेत् ॥ ३५ ॥ विधातेति ॥ विहितकर्मणामनुष्ठाता, पुत्रशिष्यादीनां शास्ता, प्रायश्चित्तादिध- आणां बक्ता, सर्वभूतमैत्रीप्रधानो ब्राह्मण उच्यते । तस्मै निगृह्यतामयमित्येवमनिष्टं न ब्रूयान्नाप्याक्रोशं वाचं वाग्दण्डधिग्दण्डरूपां तस्योच्चारयेत् ॥ ३५ ॥ न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः। होता स्यादग्निहोत्रस्य नार्को नासंस्कृतस्तथा ॥ ३६॥ न वा इति ॥ कन्याऽनूढा ऊढापि तरुणी, तथा अल्पाध्यायिमूर्खव्याध्यादिपीडि- तानुपनीताः श्रौतान्सायंप्रातह)मान कुर्युः । 'हावयेत्' इति प्रसक्तावयं कन्यादीनां प्रतिषेधः ॥ ३६॥ नरके हि पतन्त्येते जुहुन्तः स च यस्य तत् । तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ ३७॥ नरक इति ॥ एते कन्यादयो होमं कुर्वाणा नरकं गच्छन्ति । यस्य तदग्निहोत्रं प्रतिनिधिरूपेण कुर्वन्ति सोऽपि नरकं गच्छति तस्माच्छ्रोतकर्मप्रवीणः समस्तवे- दाध्यायी होता कार्यः ॥ ३७ ॥ पाजापत्यमदत्त्वाश्वमन्याधेयस दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥ ३८॥ प्राजापत्यमिति ॥ आधाने प्राजापत्यमश्वं प्रजापतिदेवताकं धनसंपत्तौ सत्यां ब्राह्मणो दक्षिणामदत्त्वा कृतेऽप्याधानेऽनाहिताग्निर्भवत्याधानफलं न लभते । तस्मादाधानेऽश्वं दक्षिणां दद्यात् ॥ ३८ ॥ पुण्यान्यन्यानि कुर्वीत श्रधानो जितेन्द्रियः। न त्वल्पदक्षिणैर्यज्ञैर्यजन्ते ह कथंचन ॥ ३९ ॥ पुण्यानीति ॥ श्रद्धावान्वशी जितेन्द्रियो यज्ञव्यतिरिक्तानि तीर्थयात्रादीनि कर्मा- णि पुण्यानि कुर्वीत नतु शास्त्रोक्तदक्षिणातोऽल्पदक्षिणैर्यजेत । परोपकारार्थत्वाद्द- क्षिणायाः स्वल्पेनाप्य॒त्विगादिदोषनिषेधार्थमिदं वचनम् ॥ ३९ ॥ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजाः पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ ४० ॥