पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ मनुस्मृतिः । [अध्यायः १० विक्रीतवान् यज्ञे गोशतलाभाय यज्ञयूपे बढाविशसिता भूत्वा हन्तुं प्रचक्रमे । न चक्षुष्प्रतीकारार्थं तथा कुर्वन्पापेन लिप्तः । एतच्च बहुचब्राह्मणे शुनःशेपाख्यानेषु व्यक्तमुक्तम् ॥ १०५॥ श्वमांसमिच्छन्नार्तोऽत्तुं धर्माधर्मविचक्षणः। प्राणानां परिरक्षार्थ वामदेवो न लिप्तवान् ॥ १०६ ॥ श्वमांसमिति ॥ वामदेवाख्य ऋषिधर्माधर्मज्ञः क्षुधातः प्राणत्राणार्थं श्रमांस खादितुमिच्छन्दोघेण न लिप्तवान् ॥ १०६ ॥ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बहीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः॥१०७।। भरद्वाज इति ॥ भरद्वाजाख्यो मुनिः महातपस्वी पुत्रसहितो निर्जने वनेऽरण्य उषित्वा क्षुत्पीडितो वृधुनाम्नस्तक्ष्णो बबीर्गाः प्रतिगृहीतवान् ॥ १०७ ॥ क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ १०८ ।। क्षुधात इति ॥ ऋषिविश्वामित्रो धर्माधर्मज्ञः क्षुत्पीडितश्चण्डालहस्ताद्गृहीत्वा कुक्कुरजघनमांसं भक्षितुमध्यवसितवान् ॥ १०८ ॥ प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरःप्रेत्य विग्रस्य गर्हितः ।। १०९ ॥ प्रतिग्रहादिति ॥ गर्हितानामप्यध्यापनयाजनप्रतिग्रहाणां मध्याह्राह्मणस्यासत्प्र- तिग्रहो निकृष्टः परलोके नरकहेतुः । ततश्चापदि प्रथमं निन्दिताध्यापनयाजनयोः प्रवर्तितव्यं तदसंभवे त्वसत्प्रतिग्रहः इत्येवंपरमेतत् ॥ १०९ ॥ अत्र हेतुमाह- याजनाध्यापने नित्यं क्रियते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ ११० ॥ याजनेति ॥ याजनाध्यापने आपद्यनापदि च उपनयनसंस्कृतात्मनां द्विजाती- नामेव क्रियेते । प्रतिग्रहः पुनर्निकृष्टजातेः शूद्वादपि क्रियते तस्मादसौ ताभ्यां गर्हितः ॥ ११०॥ जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १११ ॥ जप इति ॥ एनोग्रहणादसत्प्रतिग्रहयाजनाध्यापनैर्यदुपपन्नं तत्प्रायश्चित्तप्रकरणे वक्ष्यमाणक्रमेण जपहोमैनश्यति । असत्प्रतिग्रहजनितं पुनः प्रतिगृहीतद्रव्यत्या- गेन 'मासं गोष्ठे पयः पीत्वा' इत्येवमादिवक्ष्यमाणतपसापगच्छति ॥ १११॥