पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ मनुस्मृतिः। [ अध्यायः ९ अनंशी क्लीबपतितौ जात्यन्धवधिरौ तथा । उन्मत्वजडमूकाश्च ये च केचिनिरिन्द्रियाः॥२०१॥ अनंशाविति ॥ नपुंसकपतितजात्वन्धश्रोत्रविकलोन्मत्तजडमूकाश्च ये च कुणि- पङ्ग्वादयो विकलेन्द्रियास्ते पिनादिधनहरा न भवन्ति । किंतु ग्रासाच्छादनभर- गिनः ॥ २० ॥ तदेवाह- सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा। ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ २०२ ॥ सर्वेषामिति ॥ सर्वेषामेषां क्लीबादीनां शास्त्रज्ञेन रिक्थहारिणा यावजीवं स्वश- त्या ग्रासाच्छादनं देयम् । अददत्पापी स्यात् ॥ २०२ ॥ यद्यर्थिता तु दारैः स्यात्क्लीवादीनां कथंचन । तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ २०३॥ यदीति ॥ कथंचनेत्यभिधानात्लीबादयो विवाहानहीं इति सूचितम् । यदि कथंचिदेषां विवाहेच्छा भवेत्तदा क्लीबस्य क्षेत्रज उत्पन्नेऽन्येषामुत्पन्नापत्यानामपलं धनभाग्भवति ॥ २०३ ॥ यत्किंचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालितः ॥ २०४ ॥ यत्किंचिदिति ॥ पितरि मृते सति भ्रातृभिः सहाविभक्तो ज्येष्ठः किंचित्स्बेन पौरुषेण धनं लभते । ततो धनाद्विद्याभ्यासवतां कनिष्टभ्रातॄणां भागो भवति नेतरेषाम् ॥ २०४॥ अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ २०५॥ अविद्यानामिति ॥ सर्वेषां भ्रातॄणां कृषिवाणिज्यादिचेष्टया यदि धनं स्यात्तदा पित्र्यवर्जिते तस्मिन्धने स्वार्जिते समो विभागः स्यान्न तूद्धारोऽपित्र्य इति निश्वयः।। विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥ २०६॥ विद्याधनमिति ॥ विद्यामैत्रीविवाहार्जितं माधुपर्किकं मधुपर्कदानकाले पूज्यतया यल्लब्धं तस्यैव तत्स्यात् । यत्किंचित्पितरि' इत्युक्त्वायमपवादः । विद्याधनं च ब्या- हृतं कात्यायनेन-'परभक्तप्रदानेन प्राप्ता विद्या यदान्यतः । तया प्राप्तं च वि- धिना विद्याप्राप्तं तदुच्यते ॥ उपन्यस्ते च यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥ शिप्यादाव॑िज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।