पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेन् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः ॥ १५४ ॥ यद्यपीति ॥ यदि ब्राह्मणो द्विजातिस्त्रीषु सर्वासु विद्यमानपुत्रः स्यादविद्यमान- पुत्रो वा तथापि शूद्रापुत्रायानन्तराधिकारी यम्नेषु दशमभागाधिकं धर्मती दद्यात् । एवं अयं च शूद्रापुन्नविषये निषेधादि क्षत्रियावैश्यापुत्रौ सर्वरिक्थहरौ स्याताम् ॥ ३५४ ॥ ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास धनं भवेत् ॥ १५५ ॥ ब्राह्मणेति ॥ ब्राह्मणक्षत्रियवैश्यानां शूद्रापुत्रो धनभाङ्ग भवति. किंतु यढेव धनसमै पिता दद्यात्तदेव तस्य भवेत् । एवंच पूर्वोक्तविभागनिषेधाद्विकल्पः स- च गुणवदगुणापेक्षः । अथवा अनूढशूद्रापुत्रविषयोऽयं दशमभागनिषेधः ॥१५॥ समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरनितरे समम् ॥ १५६ ॥ समवर्णास्विनि ॥ द्विजातीनां समानजातिभार्यासु ये पुत्रा जातास्ते सर्वे ज्येष्ठा- योद्धारं दत्त्वावशिष्टं समभागं कृत्वा ज्येष्ठेन सहान्ये विभजेरन् ॥ १५६ ॥ शूद्रस्य तु भार्या विधीयते। तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ १५७ ॥ शूद्रस्येति ॥ शूद्रस्य पुनः समानजातीयैव भार्योपदिश्यते नोत्कृष्ट वकृष्टा वा । तस्यां च ये जातास्ते यदि पुत्रगतमपि तदा समभागा एव भवेयुः । तेनोहारः कस्यचिन्न देयः ॥ १५७ ॥ पुत्रान्द्वादश यानाह नृणां स्वायंभुवो मनुः । तेषां षड्बन्धुदायादाः षडदायादवान्धवाः ॥ १५८ ॥ पुत्रानिति ॥ यान्द्वादश पुत्रान्हैरण्यगर्भो मनुराह तेषां मध्यादाद्याः षड् बान्धवाः गोत्रदायादाश्च, तस्माद्वान्धवत्वेन पिण्डा- दकदानादि कुर्वन्त्यनन्तराभावे च गोत्रदायं गृह्णन्ति । पितृरिक्थभावस्य "पुत्ररिक्थहराः पितुः' इति द्वादशविधपुत्राणामेव वक्ष्यमाणत्वात् । उत्तरे षट् न गोत्रधनहरा भवन्ति । बान्धवास्तु भवन्ति । ततश्च बन्धुकार्यमुदकक्रियादि कुर्वन्ति । मेधातिथिस्तु षडदायादबान्धवाः इत्याद्युत्तरपदकस्यादायत्वमबान्धवत्वं चाह । तन्न । बौधायनेन बन्धुत्वस्याभिहितत्वात् । तदाह-कानीनं च सहोदं च क्रीतं पौनर्भवं तथा । स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥ १५८ ॥ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च पद् ॥ १५९ ॥ सवर्णैव नान्या