पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ मनुस्मृतिः। [ अध्यायः ९ सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ ४७ ॥ सकृदित्यादि ॥ पित्रादिधनविभागो भ्रातॄणां धर्मतः कृतः सकृदेव भवति न पुनरन्यथा क्रियत इति । तथा कन्या पित्रादिना सकृदेकस्मै दत्ता न पुनरन्यस्मै दीयते । एवं चान्येन पूर्वमन्यस्मै दत्तायां पश्चापित्रादिभिः प्राप्तायामपि जनि- तनपत्यं न बीजिनो भवतीत्येतदर्थमस्योपन्यासः । तथा कन्यातोऽन्यस्मिन्नपि गवादिद्वव्ये सकृदेव ददानीत्याह न पुनस्तदन्यस्मै दीयत इति ब्रीण्येतानि साधूनां सकृद्भवन्ति । यद्यपि कन्यादानस्य 'सककरणं प्रकृतोपयुक्तं तथापि प्रस- शादंशदानयोरपि सकृत्ताभिधानम् ‘सकृदाह ददानि' इत्यनेनैव कन्यादान- स्यापि सकृत्झरणसिद्धी प्रकृतोपयोगित्वादेव पृथगाभिधानम् ॥ ४७ ॥ यथा गोऽश्वोष्ट्रदासीषु महिप्यजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥४८॥ यथेति ॥ यथा गवादिषु परकीयेप्वात्मवृषभादिकं नियुज्य वत्सोत्पादको न तद्भागी तथा परकीयभायास्वपि नोत्पादकः प्रजाभागी भवति ॥ ४८ ॥ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्सस्य जातस्य न लभन्ते फलं कचित् ॥ ४९ ॥ य इति ॥ क्षेत्रस्वामिनो ये न भवन्ति अथ बीजस्वामिनः सन्तः परक्षेत्रे बीजं वपन्ति ते तत्र क्षेत्रजातत्य धान्यादेः फलं वचिदपि देशे न लभन्त इति प्रकृतस्य दृष्टान्तः॥ ४९ ॥ यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥ ५० ॥ यदन्येति ॥ यदन्यदीयगवीषु वृषभो वत्सशतमपि जनयेत्सर्वे ते वत्साः स्वीगवीत्वासिनो भवन्त्येव न वृषभस्वामिनः । वृपभस्य यच्छुक्रसेचनं तद्वृपभ- स्वामिनो निप्फलमेव भवति । 'यथा गोऽश्वोष्ट्र' इत्यनेनोत्पादकस्य प्रजाभागित्वं न भवतीत्येतत्परत्वेन दृष्टान्त उक्तः । अयं तु क्षेत्रस्वामिनः प्रजाभागित्वं भव- तीत्येतत्परत्वेन । अतो न पुनरुक्तिः ॥ ५० ॥ तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥ ५१ ॥ तथैवेति ॥ तथा गवादिगर्भेषु तथैवापत्यरहिताः सन्तः परकीयभार्यायां ये बीजं वपन्ति ते क्षेत्रस्वामिनासेवापत्यलक्षणमर्थ कुर्वन्ति । बीजसेक्ता त्वपत्याख्यं फलं न लभते ॥ ५१ ॥ ..