पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। तदिति ॥ तद्वीजं सहजप्रज्ञावता पित्रादिभिरनुगिष्टेन ज्ञानं वेदः, एवं विज्ञान- नापि तदङ्गादिशास्त्राणि तद्वेदिनायुरिच्छता न कदाचित्परजायायां वपनीयम् ॥४॥ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ४२ ॥ अत्रेति ॥ अतीतकालज्ञा अस्मिन्नर्थे वायुप्रोक्ता गाथाश्छन्दोविशेषयुतानि वाक्यानि कथयन्ति । यथा परपुरुषेण परपल्यां बीजं न वतव्यमिति ॥ ४२ ॥ नश्यतीपुर्यथा विद्धः खे विद्धमनुविङ्ख्यतः। तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥४३॥ नश्यतीति ॥ यथान्येन विद्धं मृगं कृष्णसारं तस्मिन्नेव छिद्रे पश्चादन्यस्य वियत आविद्धः क्षिप्तः शरो निष्फलो भवति पूर्वहत्रैव हतत्वात्तस्यैव तन्मृगलाभान् , एवं परपल्यामुप्तं बीजं शीघ्रमेव निष्फलं भवति । गर्भग्रहणानन्तरं क्षेत्रिणः सद्यः फललाभात् ॥ ४३ ॥ पृथोरपीमां पृथिवीं भार्या पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ।। ४४ ॥ पृथोरिति ॥ इमामपि पृथ्वी पृथुना पूर्व परिगृहीतत्वादनेकराजसंवन्धेऽपि पृथोार्यामित्यतीतज्ञा जानन्ति । तस्मात्स्थाणुं छिन्दति स्थाणुच्छेदः। कर्मण्यम्। येन स्थाणुमुत्पाट्य क्षेत्रं कृतं तस्यैव तत्क्षेत्रं वदन्ति । तथा शरादि शल्यं येन पूर्व मृगे क्षिप्तं तस्यैव तं मृगमाहुः । एवंच पूर्वपरिग्रहीतुः स्वामित्वाद्वोदुरेवापत्यं भवति न जनयितुः ॥ ४४ ॥ एतावानेव पुरुषो यजायात्मा प्रति ह । विप्राः प्राहुस्तथा चैतधो भी सा स्मृताङ्गना ॥ ४५ ॥ एतावानिति ॥ नकः पुरुषो भवति अपितु भार्यास्वदेहमपत्यानीत्येतत्प- रिमाण एव पुरुषः । तथाच वाजसनेयब्राह्मणम्-'अों ह वा एष आन्मनस्तस्मा- द्यजायां न विन्दते नैतावत्प्रजायते असणे हि तावद्भवति, अथ यदेव जायां विन्दतेऽथ प्रजायते तर्हि सर्वो भवति, तथा तद्वेदविदो विप्रा वदन्ति यो भर्ता सैव भार्या स्मृता' इति । एवंच तस्यामुत्पादितं भर्तुरेवापत्यं भवतीति । यतश्च दंपत्योरैक्यमतः ॥ ४५ ॥ न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते । एवं धर्म विजानीमः प्राक्प्रजापतिनिर्मितम् ॥ ४६॥ नेति ॥ निष्कयो विक्रयः विसर्गस्त्यागः न ताभ्यां स्त्री भतुर्भार्यात्वादपैतवं पूर्व प्रजापतिना स्मृतं नित्यं धर्म मन्यामहे । एवंच क्रयादिनापि परस्त्रियमात्म- सात्कृत्वा तदुत्पादितापत्यं क्षेत्रिण एव भवति न बीजिनः ॥ ४६ ॥