पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ मनुस्मृतिः। [ अध्यायः ८ अनपेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ३०९ ॥ अनपेक्षितेति ॥ लचितशास्त्रमर्यादं परलोकाभावशालिनमनुचितदण्डादिना धनग्राहिणं रक्षणरहितं करबल्यादेर्भक्षितारं राजानं नरकगामिनं जानीयात् ३०१ अधार्मिकं त्रिभियायनिगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥ ३१०॥ अधार्मिकमिति ॥ अधार्मिकं चौरादिकमपराधापेक्षया त्रिभिरुपायैः प्रयत्नेन नियमयेत् । तानाह-कारागारप्रवेशनेन, निगडादिबन्धनेन, करचरणच्छेदना- दिनानाप्रकारहिंसनेन ॥ ३३० ॥ निग्रहेण हि पापानां साधूनां संग्रहेण च । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः॥ ३११ ॥ निग्रहेणेति ॥ पापशालिनां निग्रहेण, साधूनां संग्रहेण, द्विजातय इव महाय- ज्ञादिभिः सर्वकालं नृपतयः पवित्रीभवन्ति । तस्मादधार्मिकान्निगृह्णीयासाधूं- श्वानुगृह्णीयात् ॥ ३११ ॥ क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः॥३१२ ।। सातव्यमिति ॥ कार्यार्थिप्रत्यर्थिनां दुःखेनाक्षेपोक्तिं रचयतां तथा बालवृद्धव्या- धितानामाक्षिपतां वक्ष्यमाणमात्मीयमुपकारमिच्छता प्रभुणा क्षमणीयम् ॥३१२॥ यः क्षिप्तो मर्षयत्यातस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ३१३ ॥ यः क्षिप्त इति ॥ दुःखितैराक्षिप्तः सहते यस्तेन स्वर्गलोके पूजां लभते । प्रभु- त्वदन्न सहते यः स तेन नरकं गच्छति ॥ ३१३ ॥ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता। आचक्षाणेन तत्स्तेयमेवंकर्मासि शाधि माम् ॥ ३१४ ॥ स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ३१५॥ राजेति ॥ स्कन्धेनेति ॥ यद्यपि 'सुवर्णस्तेयकृद्विप्रः' इत्यादि प्रायश्चित्तप्रकरणे वक्ष्यति तथापि सुवर्णस्तेयं प्रति राजदण्डरूपतामस्य दण्डप्रकरणे दर्शयितुं पाठः । ब्राह्मणसुवर्णस्य चौरेण मुक्तकेशेन वेगाद्गच्छता मया ब्राह्मणसुवर्णमपहृतमिति संख्यापयता मुसलाख्यमायुधं खादिरमयं वा दण्डमुभयतस्तीक्ष्णां शक्तिं लोह- मयं वा दण्डं स्कन्धे गृहीत्वा राजसमीपं गच्छेत् ततो ब्राह्मणसुवर्णहायहमतोऽनेन मुसलादिना मां व्यापादयेत्येवं राज्ञे वक्तव्यम् ॥ ३१४ ॥ ३१५॥