पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३११ क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ २४१॥ क्षेत्रेष्विति ॥ वर्मनामान्तव्यतिरिक्तेषु पशुर्भक्षयन्सपादं पणं दण्डमर्हति । अत्रापि पाल एव दण्ड्यः । सर्वत्र क्षेत्रे पशुभक्षितं फलं स्वामिने पालेन स्वामिना वा यथापराधं दातव्यमिति निश्चयः ॥ २४१ ॥ अनिर्दशाहां गां मृतां वृषान्देवपशूस्तथा । सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ॥२४२॥ अनिर्दशाहामिति ॥ प्रसूतां गामनिर्गतदशाहां तथा च चक्रशूलाङ्कितोत्सृथ्वृपा- न्हरिहरादिप्रतिमासंबन्धिपशून्पालसहितान्पालरहितान्वा सस्यभक्षणप्रवृत्तान्मनुर- दण्ड्यानाह ।उत्सृष्टवृषाणामपि गर्भार्थं गोकुले पालैर्धारणात्सपालत्वसंभवः॥२४२॥ क्षेत्रियस्यात्यये दण्डो भागादशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ २४३ ।। क्षेत्रियस्येति ॥ क्षेत्रकर्षकस्यात्मपशुसस्यभक्षणेऽयथाकालं वपनादौ वापराधे सति यावतो राजभागस्य तेन हानिः कृता ततो दशगुणदण्डः स्यात् । क्षेत्रिकाविदिते भृत्यानामुक्तापराधे क्षेत्रिकस्यैव दशगुणार्धदण्डः । क्षेत्रसस्यप्रसङ्गा- चेदमुक्तम् ॥ २४३ ॥ एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥२४४॥ एतदिति ॥ स्वामिनां पालानां चारक्षणादपराधे पशूनां च सस्यभक्षणरूपे व्यतिक्रमे धर्मप्रधानो भूपतिरेतत्पूर्वोक्तं कर्तव्यमनुतिष्ठेत् ॥ २४४ ॥ सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ २४५ ॥ सीमामिति ॥ द्वयोमियोमर्यादा प्रति विप्रतिपत्तावुत्पन्नायां ज्येष्ठे मासि ग्रीष्म- रवितापसंशुष्कतृणत्वात्प्रकटीभूतेषु सीमालिङ्गेषु राजा सीमां निश्चिनुयात् ॥२४५॥ सीमाक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान् ॥ २४६ ॥ सीमावृक्षानिति ॥ न्यग्रोधादीन्वृक्षान्क्षीरिण उदुम्बरादीश्चिरस्थायित्वात्सीमा- लिङ्गभूतान्कुर्वीत ॥ २४६ ॥ गुल्मान्वेणूंश्च विविधाञ्छमीवल्लीस्थलानि च । शरान्कुजकगुल्मांश्च तथा सीमा न नश्यति ॥ २४७ ॥