पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः [ अध्यायः ८ नातिसांवत्सरी वृद्धि न चादृष्टां पुर्नहरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या॥१५३॥ नातीति ॥ ममैकस्मिन्मासि मासद्वये मासत्रये वा गते तस्य वृद्धिं विरागस्य- जन्दा दातव्यत्येवंविधनियमपूर्वकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्यन्तं कुर्यात् । नानि- क्रान्ते संवत्सरे नियमस्य वृद्धि गृह्णीयात् । नच शास्वाददृष्टामुक्तधर्यद्विकनिक- बताद्यधिकां गृह्णीयात् । अधर्मत्वबोधनार्थी निषेधः । चक्रवृद्ध्यादिचतुष्टयीं वाशास्त्रीयां न गृह्णीयात् । तासां स्वरूपमाह बृहस्पतिः-'कायिका काय- संयुक्ता मासग्राह्या च कालिका । वृद्धवृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता । तत्र चक्रवृद्धिः स्वरूपेणैव गर्हिता । कलावृद्धिस्तु द्विगुणाधिकग्रहणेन कायिका चालिवाहदोहादिनाकारिता ऋणिकेन यानापत्काल एवोत्तमर्णपीडया कृता । चत्त- स्रोऽपि वृद्धीरशास्त्रीया न गृह्णीयात् । तथाच बृहस्पति:--'भागो यद्विगुणादव चक्रवृद्धिश्च गृह्यते । पूर्णे च सोदयं पश्चाद्वा(प्यं तद्विगर्हितम्'। कात्यायन:-'ऋणि- केन कृता वृद्धिरधिका संग्रकल्पिता। आपत्कालकृता नित्यं दातव्या कारिता तथा। अन्यथा कारिता वृद्धिर्न दातव्या कथंचन' ॥ १५३ ॥ ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धि करणं परिवर्तयेत् ॥ १५४ ॥ ऋणं दातुमिति ॥ योऽधम! धनदानासामर्थ्यात्पुनर्लेख्यादिक्रियां कर्तुमिच्छेत्म निर्जितामुत्तमर्णः स्वन्वतयान्मसात्कृतांवृद्धिं दत्त्वा करणं लेख्यं पुनः कुर्यात् ॥६.४॥ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद्वृद्धिस्तावती दातुमर्हति ॥ १५५ ॥ अदर्शयित्वेति ॥ यदि दैवगत्या वृद्धिहिरण्यमपि समये दातुं न शक्नोति तदा तगृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिरण्यादिशेपमारोपयेत् । यन्न- माणं चक्रवृद्धिधनं तदानीं संभवति तदातुमर्हति ॥ १५५ ॥ चक्रवृद्धि समारूढो देशकालव्यवस्थितः। अतिकामन्देशकालौ न तत्फलमवाप्नुयात् ॥ १५६ ॥ चक्रवृद्धिमिति ॥ चक्रवृद्धिशब्देनान चक्रवच्छकादिभररूपा बृद्धिरभिमता । चक्रवृद्धिमाश्रित उत्तमणों देशकालव्यवस्थितो यदि वाराणसीपर्यन्तं लवणादि शकटेन वहामि तदा ममेदं यद्धनं दातव्यमिति देतनरूपदेशव्यवस्थितिः । यदि मासं यावद्वहामि तदा मासं यद्धनं दातव्यमिति कालव्यवस्थितिः । एवमभ्युपगत- देशकालनियमस्थौ देशकालो दैवादपूरयन्शकटादिना बहन् लाभरूपफलं सकलं न प्राप्नोति । अपितु ॥ १५६ ॥ समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगम प्रति ॥ १५७ ॥