पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ मनुस्मृतिः । [ अध्यायः ८ कूप्माण्डेरिति॥ कूष्माण्डमन्ना यजुर्वेदिका 'यद्देवा देवहेडनम्' इत्येवमादय- स्तैर्मत्रदेवतायै घृतमग्नौ जुहुयात् । यथाविधि परिस्तरणादि त्वात्मधर्मेण स्वगृ- ह्योक्तेन । 'उदुत्तमं वरुणपाशम्' इत्येतया वरुणदेवताकया 'आपो हि ठाः' इति तृचेन वाग्देवताकेन जुहुयात् । घृतमन्नाविति सर्वत्रानुषङ्गः ॥ १०६ ॥ त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः। तणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः ॥ १०७ ॥ त्रिपक्षादिति ॥ अव्याधितः साक्षी ऋणादानादिव्यवहारे त्रिपक्षपर्यन्तं यदि साक्ष्यं न वदेत्तदा तद्विवादास्पदं सर्वमृणमुत्तमर्णस्य दद्यात् , तस्य च सर्वस्वर्णस्य दशमं भागं राज्ञो दण्डं दद्यात् ॥ १०७ ॥ यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निातिमरणमृणं दाप्यो दमं च सः॥ १०८ ॥ यस्येति ॥ यस्य साक्षिण उक्तसाक्ष्यस्य सप्ताहमध्ये व्याध्यग्निदाहसंनिहितपु- त्रादिज्ञातिमरणानामन्यतमं भवति दैवसूचितमिथ्याभिदोषत्वादृणमुत्तमर्णस्य दण्डं च राज्ञा दाप्यः ॥ १०८ ॥ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः। अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ १०९ ॥ असाक्षिकेप्विति ॥ अविद्यमानसाक्षिकेषु व्यवहारेषु परस्परं विवदमानयोस्त- त्वतश्छलादिव्यतिरेकेण सत्यमलभमानः प्राडिवाको वक्ष्यमाणेन शपथेन सत्यमु- नयेत् ॥ १०९॥ महर्षिभिश्च देवैश्च कार्यार्थ शपथाः कृताः । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ ११० ॥ महर्षिभिश्चेति ॥ सप्तर्षिभिर्देवैश्चन्द्रादिभिः संदिग्धकार्यनिर्णयार्थ शपथाः कृताः वसिष्टोऽप्यनेन पुत्रशतं भक्षितमिति विश्वामित्रेणाक्रुष्टः स्वपरिशुद्धये पिजवनापत्ये सुदासि राजनि शपथं चकार । अनेकार्थत्वाद्धातूनां शपिरपि करोत्यर्थः ॥११०॥ न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः। वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥ १११॥ न वृथेति ॥ स्वल्पेऽपि कार्ये न वृथा शपथं पण्डितः कुर्यात् । वृथा शपथं कुर्वन्परलोक इह लोके नरकप्रास्याऽकीर्तिप्राप्त्या च नाशं प्राप्नोति ॥ १११ ॥ वृथाशपथप्रतिप्रसवार्थमाह- कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ११२ ॥ ..