पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ मनुस्मृतिः । [अध्यायः ८ अन्ध इति ॥ यः सभां प्राप्तस्तत्त्वार्थस्यायथार्थस्याभिप्रायभनुपलब्ध()मुत्को- चादिसुखलेशेन कथयति स नरोऽन्ध इव सकण्टकान्मत्स्यान्भक्षयति सुखबुद्या प्रवृत्तो दुःखमेव महल्लभते ॥ ९५ ॥ यस विद्वान्हि वदतः क्षेत्रज्ञो नाभिशङ्कते । तसान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः॥ ९६॥ यस्येति ॥ यस्य वदतः सर्वज्ञोऽन्तयामी किमयं सत्यं वदत्युतानृतमिति न शङ्केत किंतु सत्यमेवायं वदतीति निर्विशङ्कः संपद्यते । तस्मादन्यं प्रशस्ततरं पुरुष देवा न जानन्ति ॥ ९६ ॥ यावतो बान्धवान्यस्सिन्हन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तसिञ्छृणु सौम्यानुपूर्वशः ॥ ९७ ॥ यावत इति ॥ यस्मिन्पश्वादिनिमित्ते साक्ष्ये ऽनृतंवदन् यत्संख्याकान्पित्रादिबा- न्धवानरके योजयति तत्संख्याकान्क्रमण परिगणनया मयोच्यमानान्साधो शृणु। अथवा यावतो बान्धवान्यसिन्हन्ति यावतां बान्धवानां हननफलं प्राप्नोति तावत्संख्याकान्छृणु । पक्षद्वयेऽप्यनृतनिन्दार्थमिदम् ॥ ९७ ॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ९८ ॥ पञ्चेति ॥ पशुविषयेऽनृते पञ्च बान्धवान्नरके योजयति पञ्चानां बान्धवानां हननफलं प्राप्नोति । एवं दश गोविषये। संख्यागौरवं चेदं प्रायश्चित्तगौरवार्थम् ९८ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स भूम्यनृतं वदीः॥ ९९ ॥ हन्तीति ॥ हिरण्यार्थेऽनृतं वदनातानजातांश्च पुत्रप्रभृतीन्नरके योजयति एषां हननफलं प्राप्नोति । भूमिविषये चानृतं वदन्सर्वप्राणिनां हननफलं प्राप्नोति । तस्माद्भूविषयेऽनृतं मा वदीरिति विशिष्याभिधान वैदूर्यादिप्वनृतं वदतो भूमिवद्दोषमाह- अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अजेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥१०॥ अप्स्विति ॥ तडागकूपनाहोदकविषयेऽनृते स्त्रीणां च मैथुनाख्योपभोगविषये अजेषु च रत्नेषु च मुक्तादिषु पाषाणमयेषु वैदूर्यादिष्वनृते भूमिवद्दोषमाहुः॥१०॥ एतान्दोपानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ १०१॥ ॥ ९९ ॥