पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २८५ v जन्मप्रभृति यत्किचित्पुण्यं भद्र त्वया कृतम् । तत्ते सर्व शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥९॥ जन्मप्रभृतीत्यादि ॥ हे शुभाचार, यत्त्वया जन्मत आरभ्य किंचित्सुकृतं कृतं तत्सर्वं त्वदीयं कुक्कुरादिकं संक्रामति यदि त्वमसत्यं ब्रवीषि ॥ ९० ॥ एकोऽहमस्मीत्यात्मानं यत्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्येषः पुण्यपापेक्षिता मुनिः ॥ ९१ ॥ एकोऽहमित्यादि ॥ हे भद्र, एक एवाहमस्मि जीवात्मक इति यदात्मानं मन्यसे मैवं मंस्थाः । यस्मादेवं पापानां पुण्यानां च द्रष्टा मननान्मुनिः सर्वज्ञस्तव हृदये परमात्मा नित्यमवस्थितः । तथाच श्रुतिः-'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाहत्त्यनश्नन्नन्यो अभिचाक- शीति' ॥ ९१ ॥ यमो वैवस्वतो देवो यस्तवैष हदि स्थितः। तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः ॥ ९२॥ यम इति ॥ सर्वसंयमनाद्यमः परमात्मा, वैवस्वत इति दण्डधारित्वात् , देवनाहेवः, यस्तवैष हृदि तिष्ठति तेन सह यथार्थकथने यदि तवाविवादः यदा त्वन्मनोगतमसावन्यज्जानाति त्वं चान्यथा कथयसि तदान्तर्यामिणा सह विप्र- तिपत्तिः स्यात् । एवं चात्र सत्याभिधानेनैव निःपापः कृतकृत्योऽसि । पापनिहर- णार्थ मा गङ्गां मा च कुरुक्षेत्रं यासीः । मनूक्तमेवात्र गङ्गाकुरुक्षेत्रयोः साम्यं मत्स्यपुराणे व्यासेन स्फुटीकृतम्-'कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता' इति । मेधातिथिगोविन्दराजौ तु विवस्वतः पुत्रो यो यमो दक्षिणदिक्पतिर्लोकतः कर्ण- गोचरीभूतत्वात्तव हृदये परिस्फुरति तेन सह यदि तवाधर्मकारित्वाद्विवादो नास्ति तदा मा गङ्गां मा कुरुक्षेत्रं यासीरिति व्याचक्षाते ॥ ९२ ॥ नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ९३ ॥ नग्न इति ॥ यः साक्ष्यमसत्यं वदेत्स नग्नः कृतमुण्डनपरिभावोऽन्धः कर्प- रेणोपलक्षितः भिक्षार्थी शत्रुकुलं गच्छेत् ॥ ९३ ॥ अवाशिरास्तमसन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये ॥ ९४ ॥ अवागिति ॥ यो धर्मनिश्चयनिमित्तं पृष्टः सन्नसत्यं ब्रूयात्स पापवानधोमुखो महान्धकारे यो नरकस्तं गच्छति ॥ ९४ ॥ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ ९५ ॥