पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ मनुस्मृतिः। [अध्यायः ८ सत्येनेत्यादि । यस्मात्सत्येन पूर्वार्जितादपि पापात्साक्षी मुच्यते धर्मश्चास्य सत्याभिधानेन वृद्धिमेति तस्मात्सर्ववर्णविषये साक्षिभिः सत्यं वक्तव्यम् ॥ ८३ ।। आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः। मावसंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ८४ ॥ आत्मैवेति ॥ यस्माच्छुभाशुभकर्मप्रतिष्ठा आत्मैवात्मनः शरणं तस्मादेवं -स्वमात्मानं नराणां मध्यमादुत्तमं साक्षिणं मृषाभिधाने नावज्ञासीः ॥ ८४ ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः। तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८५ ॥ मन्यन्त इति ॥ पापकारिण एवं मन्यन्तेऽस्मानधर्मप्रवृत्तान्न कश्चित्पश्यतीति । तान्पुनर्वक्ष्यमाणा देवाः पश्यन्ति । स्वस्यान्तरपुरुषः पश्यति ॥ ८५ ॥ द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८६ ॥ द्यौरित्यादि ॥ द्युलोकपृथिवीजलहृदयस्थजीवचन्द्रादित्याग्नियमवायुरात्रिसंध्या- द्वयधर्माः सर्वशरीरिणां शुभाशुभकर्मज्ञाः । दिवादीनां चाधिष्ठातृदेवतास्ति सा च शरीरिण्यैकत्रावस्थापिता तत्सर्वं जानातीत्यागमप्रामाण्याद्वेदान्तदर्शनं तदङ्गी- कृत्येदमुक्तम् ॥ ८६ ॥ देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्मासुखान्वा पूर्वाह्ने वै शुचिः शुचीन् ॥ ८७ ॥ देवब्राह्मणेति ॥ प्रतिमादेवताब्राह्मणसंनिधाने शुचीन्द्विजातिप्रभृतीन्प्राङ्मुखा- नुदङ्मुखान्वा स्वयं प्रयतः प्राडिवाकः पूर्वाह्ने काले याथातथ्यं साक्ष्यं पृच्छेत् ॥८७॥ ब्रूहीति ब्राह्मणं पृच्छेसत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८८ ॥ ब्रूहीत्यादि ॥ ब्रूहीत्येवं शब्दमुच्चार्य ब्राह्मणं पृच्छेत् । सत्यं ब्रूहीति पार्थिवं क्षत्रियं पृच्छेत् । गोबीजसुवर्णापहारे यत्पापं तद्भवतोऽनृताभिधाने स्यादित्येवं वैश्यम् । शूद्रं पुनः सर्वैर्वक्ष्यमाणपापैः संबध्यसे यदि मृषा वदसीति पृच्छेत् ॥८॥ ब्रह्मनो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्बुवतो मृषा ।। ८९ ॥ ब्रह्मन्न इति ॥ ब्राह्मणहन्तुः स्त्रीघातिनो बालघातिनश्च ये नरकादिलोका ऋ- षिभिः ः स्मृताः, ये च मित्रद्रोहादिकारिणः, ये चोपकर्तुरपकारिणस्ते तव मिथ्या- वदतो भवेयुः ॥ ८९॥