पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ मनुस्मृतिः। [अध्यायः ८ यः स्वयं साधयेदर्थमुत्तमोऽधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥५०॥ य इत्यादि ॥ य उत्तमर्णः संप्रतिपन्नमर्थमधमर्णात्स्वयं बलादिना साधयति स स्वीयं धनं सम्यक्साधयन्नमास्व निवेद्य किमिति बलादिकं कृतवानसीति न राज्ञा निषेद्धव्यः ॥ ५० ॥ अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थ दण्डलेशं च शक्तितः॥५१॥ अर्थ इति ॥ नाहमस्मै धारयामीति धनविषयेऽपह्नवानमधमणे करणेन लेख्यसाक्षिदिव्यादिना प्रतिपादितमर्थमुत्तमर्णस्य राजा प्रदापयेत् । दण्डलेशं च 'अपह्नवे तु द्विगुणम्' इति वक्ष्यमाणदशमभागदण्डाच्यूनमपि दण्डं पुरुषशक्त्या दापयेत् ॥ ५१ ॥ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्तादिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ५२ ॥ अपेति ॥ उत्तमर्णस्य धनं देहीति सभायां प्राड्दिवाकेनोकस्याधमर्णस्य नास्सै धारयामीत्यपलापे सति अभियोक्ताऽर्थी देश्यं धनप्रयोगदेशवर्तिसाक्षिणं निर्दि- शेत् । प्रायेण साक्षिभिरेव स्त्रीमूर्खादिसाधारगनिर्णयात्माक्साक्ष्युपन्यासः। अन्यद्वा करणं पत्रादि कथयेत् ॥ ५२ ॥ अदेश्यं यश्च दिशति निर्दिश्यापहृते च यः । यश्चाधरोत्तरानान्विगीतान्नावबुध्यते ॥ ५३॥ अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । सम्यक्प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति ॥ ५४॥ असंभाष्ये साक्षिभिश्व देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ५५ ॥ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ५६ ॥ अदेश्यमिति ॥ अपदिश्येति ॥ असंभाष्य इति ॥ बहीत्यादि ॥ अदेश्यं यत्र देशेऽधमर्णस्य ऋणग्रहणकाले सर्वदावस्थानं न संभवतीति । निर्दिश्य चादेशादिकं नैतन्मया निर्दिष्टमित्यपनयति । यश्च पूर्वोक्तानान्स्वर्थान्स्वोक्तान्विरुद्धान्वावग- च्छति । यश्च मम हस्तात्सुवर्णस्य पलमनेन गृहीतमिति निर्दिश्य मत्पु- ब्रहस्ताद्गृहीतमित्येवमादिना यः पुनरपसरति । यश्च सम्यक्प्रतिज्ञातमर्थ कस्मा- त्वया रात्रावसाक्षिकं दत्तमित्येवमादि प्राड्दिवाकेन पृष्टः सन्न समाधत्ते । यश्च