पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८. मनुस्मृतिः। [अध्यायः ७ आसनमिति ॥ संध्यादिगुणानां नैरपेक्ष्येणानुष्ठानमनन्तरमुक्तं तदुचितानुष्टाना- थोऽयमारम्भः । आत्मसमृद्धिपरहान्यादिकं कार्य वीक्ष्य संधायासनं विगृह्य वा यानं द्वैधीभावसंश्रये च केनचित्संधि केनचिद्विग्रहमित्यादिकमनुतिष्ठेत् ॥ १६ ॥ संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः॥१६२ ॥ संधि त्विति ॥संध्यादीन्पडेव गुणान्द्विप्रकाराजानीयादित्यविवक्षार्थम् ॥१६२॥ समानयानकर्मा च विपरीतस्तथैव च । तदात्वायतिसंयुक्तः संधियो द्विलक्षणः ॥ १६३ ॥ समानेति ॥ तात्कालिकफललाभार्थमुत्तरकालीनफललाभार्थं वा यत्र राजान्त- रेण सहान्यं प्रति पानादि कर्म क्रियते स समानयानकर्मा संधिः।यः पुनस्वमत्र याहि अहमत्र यास्यामीति सांप्रतिकोत्तरकालीनफलार्थितयैव क्रियते सोऽसमान- यानकर्मेत्येवं द्विप्रकारसंधिर्ज्ञातव्यः ॥ १६३ ॥ स्वयंकृतश्च कार्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः॥१६४ ॥ स्वयमित्यादि ॥ शत्रुजयरूपप्रयोजनार्थ शत्रोर्व्यसनादिकमाकलय्य वक्ष्यमाण- मार्गशीर्षादिकालादन्यदा यथोक्तकाल एव वा स्वयं कृत इत्येको विग्रहः । अप- कृतमपकारः मित्रस्यापकारे राजान्तरेण कृते मित्ररक्षणार्थमपरो विग्रह इत्येवं द्विविधो विग्रहः । गोविन्दराजेन तु 'मित्रेण चैवापकृते' इति पठितं व्याख्यातं च । यः परस्य शत्रुः स विजिगीपोर्सिनं तेनापकारे क्रियमाणे व्यसनिनि शत्राविति । 'तस्माल्लिखितपाठाओं वृद्धोविन्दराजतः । मेधातिथिप्रभृतिभिलिखितौ स्वीकृती मया' ॥ १६४॥ एकाकिनश्चात्ययिके कार्य प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ १६५॥ एकाकिन इत्यादि ॥ आत्ययिकं कार्य शत्रोर्व्यसनादिकं तस्मिन्नकस्माजाते शक्त- स्यैकाकिनो यानमशक्तस्य मित्रसहितस्येत्येवं यानं द्विविधमभिधीयते ॥ १६५ ॥ क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ १६६ ॥ क्षीणस्येति ॥ प्राग्जन्मार्जितेन दुष्कृतेन ऐहिकेन वा पूर्वकृतेन क्रमशः क्षीण- हस्त्यश्वकोशादिकस्य समृद्धस्यापि वा मित्रानुरोधेन तत्कार्यरक्षार्थमित्येवं द्विविध- मासनं मुनिभिः स्मृतम् ॥ १६६ ॥ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः॥ १६७ ॥