पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ मनुस्मृतिः । [ अध्यायः ११ स्त्रीणां वेश्यात्वं कृत्वा तदुपजीवनं, इयेनादियज्ञेनानपराद्धस्स मारणं, मत्रौष- धिना वशीकरणं, पाकादिदृष्टप्रयोजनार्थमात्रमेव वृक्षच्छेदनं, अनातुरस्य देवपि- ब्राधुद्देशमन्तरेण पाकाधनुष्टानं, निन्दितान्नस्य लशुनादेः सकृदनिच्छया भक्ष- णम्, इच्छापूर्वकाभ्यासभक्षणे पुनः 'गर्हितानाद्ययोर्जग्धिः' इत्युक्तत्वात् । सन्य- धिकारेऽत्यनाधानं, सुवर्णादन्यस्य सारद्रव्यस्यापहरणं, ऋणानां च ऋणैत्रिभित्र- णवानरो जायते तदनपकरणं, श्रुतिस्मृतिविरुद्धशास्त्रशिक्षणं, नृत्यगीतवादिनोप- सेवन, धान्यतानलोहादेः पशूनां च चौर्य, द्विजातीनां पीतमद्यायाः स्त्रिया गमनं, स्त्रीशूद्भवैश्यक्षत्रियहननं, अदृष्टार्थकाभावबुद्धिः, एतत्प्रत्येकमुपपातकम् । 'बान्ध- वत्यागः' इत्यनेनैव मात्रादीनां त्यागप्राप्तौ पृथग्वचनं निन्दार्थम् । पितृव्यादिबा. न्धवत्यागेनावश्यमेव प्रायश्चित्तं भवति किंतु मात्रादित्यागप्रायश्चित्तान्यूनमपि भवति ॥ ५९ ॥६०॥ ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥६५॥ ६६ ॥ ब्राह्मणस्य रुजाकृत्या घ्रातिर यमद्ययोः। जैहयं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ६७ ॥ ब्राह्मणस्येति ॥ ब्राह्मणस्य दण्डहस्तादिना पीडाक्रिया, यदतिशयदुर्गन्धितया- धेयं लशुनपुरीषादि तस्य मद्यस्य चाघ्राणं, कुटिलत्वं वक्रता, पुंसि च मुखादी मैथुनमित्येतत्प्रत्येकं जातिभ्रंशकरं स्मृतम् ॥ ६७ ॥ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ६८॥ खरेति ॥ गर्दभतुरगोष्ट्रमृगहस्तिच्छागमेषमत्स्यसर्पमहिषाणां प्रत्येकं वधः संक- रीकरणं ज्ञेयम् ॥ ६८॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ ६९ ।। निन्दितेभ्य इति ॥ अप्रतिग्राह्यधनेभ्यः प्रतिग्रहो वाणिज्यं शूद्रस्य परिचयां अनृताभिधानमित्येतत्प्रत्येकमपात्रीकरणं ज्ञेयम् ॥ ६९ ॥ कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलैधःकुसुमस्तेयमधैर्य च मलावहम् ।। ७० ॥ कृमीति ॥ कृमयः क्षुद्रजन्तवस्तेभ्य ईपत्स्थूलाः कीटास्तेपां वधः, पक्षिणां च। मद्यानुगतं यद्भोज्यमपि शाकायेकत्र पिटकादौ कृत्वा मयेन सहानीतं तस्य भोजनम् । मेधातिथिस्तु मद्यानुगतं मद्यसंस्पृष्टमाह । तन्न । तत्र प्रायश्चित्तगौर- वात् । फलकाष्टपुष्पाणां च चौर्यमल्पेऽपच्येऽप्यत्यन्तवैक्लव्यम् । एतत्सर्वं प्रत्येक मलिनीकरणम् ॥ ७० ॥ एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् । यत्रतैरपोह्यन्ते तानि सम्यनिबोधत ॥ ७१ ॥