पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ मनुस्मृतिः। [ अध्यायः १० संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः॥२५॥ संकीर्णेति ॥ ये संकीर्णयोनयः प्रतिलोमैरनुलोमैश्च परस्परसंबन्धाजायन्ते ता- विशेषेण वक्ष्यामि ॥ २५ ॥ मूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः क्षत्तृजातिश्च तथाऽयोगव एव च ॥ २६ ॥ सूत इति ॥ एते षडुक्तलक्षणाः सूतादय उत्तरार्थमनूयन्ते ॥ २६ ॥ एते षट् सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु । मातृजात्यां प्रमूयन्ते प्रवरासु च योनिषु ॥२७॥ एत इति ॥ एते पूर्वोक्ताः षट् प्रतिलोमजाः स्वयोनिषु सुतोत्पत्तिं कुर्वन्ति । यथा शूद्रेण वैश्यायां जात आयोगवः, आयोगव्यामेव।मातृजातौ वैश्यायां, प्रवरासु क्षत्रियाब्राह्मणीयोनिषु, चकारादपकृष्टायामपि शूद्भजातो, सर्वत्र सदृशान्वर्णाञ्जन- यन्ति । सदृशत्वं च न पित्रपेक्षया किंतु मातृजात्यादिषु चातुर्वर्ण्यस्त्रीष्वेव पितृतो- ऽधिकगर्हितपुत्रोत्पत्तेर्वक्ष्यमाणत्वात्,तत्सदृशान्पितृतोऽधिकगर्हितान् ,स्वजातावपि जनयन्तीत्येतावदेवाप्राप्तत्वादनेन विधीयते । किंतु जघन्यवर्णेनोत्तमवर्णस्त्रीषु जनितत्वात्क्रियादुष्टा आयोगवाद्याः प्रतिलोमजाः क्रियादुष्टाभ्यां मातापितृभ्यां तुल्याभ्यामपि जनिते आयोगवादिपुत्रे ब्रह्महन्ननन्तरजनितो ब्रह्महन्तुमाता- पितृजनितवदधिकदुष्ट एव न्याय्यः । शुद्धब्राह्मणादिजातीयेन शुद्धब्राह्मण्या- दिसजातीयायां जनितः पितृतुल्यएवोचितो नतु क्रियादुष्टोभयजनितोऽपि ॥२७॥ यथा त्रयाणां वर्णानां योरात्मास्य जायते । आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ २८॥ यथेति ॥ यथा त्रयाणां वर्णानां क्षत्रियवैश्यशूद्राणां मध्यावयोर्वर्णयोः क्षत्रिय- वैश्ययोर्गमने ब्राह्मणस्यानुलोम्याट्विज उत्पद्यते, सजातीयायां च द्विजोजायते।एवं बाह्येप्वपि क्षत्रियवैश्याभ्यां वैश्यक्षत्रियाभ्यां क्षत्रियाब्राह्मण्योर्जातेषूत्कर्षापक्रमो भवति । शूदजातप्रतिलोमापेक्षया द्विजाद्युत्पन्नप्रतिलोमप्राशस्त्यार्थमिदम् । मे- धातिथिस्तु द्विजत्वप्रतिपादकमेतदेषां वचनमुपनयनार्थमित्याह । तन्न । 'प्रतिलो- मजास्तु धर्महीनाः' इति गौतमेन संस्कारनिषेधात् ॥ २८ ॥ ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ।। २९ ॥ ते चापीति ॥ ते चायोगवादयः षट् परस्परजातीयासु भार्यासु बहूनानुलो- भ्येऽप्यधिकदुष्टान्सक्रियाबहिर्भूताञ्जनयन्ति । तद्यथा । आयोगवः क्षत्तृजायाया- मात्मनो हीनतरं जनयति, तथा क्षत्ताप्यायोगव्यामात्मनो हीनतरमुत्पादयति । युवमन्येप्वपि प्रतिलोमेषु द्रष्टव्यम् ॥ २९ ॥