पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० .. मनुस्मृतिः । [अध्यायः ७ यदेति ॥ यदा तु सैन्यानाममात्यादिप्रकृतिदोषादिनातिशयेन ग्राह्यो भवति बलं द्वैधं विधाय दुर्गाश्रयणेनापि नात्मरक्षाक्षमस्तदा शीघ्रमेव धार्मिकं बलवन्तं च राजानमाश्रयेत् ॥ १७४ ॥ कीदृशं तं बलवन्तमित्याह- निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ १७५ ॥ निग्रहमिति ॥ यासां दोषेणासौ गमनीयतमो जातस्तासां प्रकृतीनां, यस्माच शत्रुबलादस्य भयमुत्पन्नं तयोईयोरपि यः संश्रितो निग्रहक्षमस्तं नृपं सर्वयत्नैर्गुरु- मिव नित्यं सेवेत ॥ १७५॥ यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ १७६ ॥ यदीति ॥ अगतिका हि गतिः संश्रयो नाम । तत्रापि यदि संश्रयकृतं दोष पश्येत्तदा निःसंशयो भूत्वा शोभनमेव युद्धं तस्मिन्काले समाचरेत् । दुर्बलेनापि बलवतो जयदर्शनान्निहतस्य च स्वर्गप्राप्तेः ॥ १७६ ॥ सर्वोपायैस्तथा कुर्यानीतिज्ञः पृथिवीपतिः। यथास्याभ्यधिका न स्युमित्रोदासीनशत्रवः ॥ १७७ ॥ सर्वोपायैरिति ॥ सर्वैः सामादिभिरुपायैर्नीतिज्ञो राजा तथा यतेत, मित्रोदासीनशत्रवोऽभ्यधिका न भवन्ति । आधिक्ये हि तेषामसौ ग्राह्यो भवति । धनलोभेन मित्रस्यापि शात्रवापत्तेः ॥ १७७ ॥ आयति सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः॥ १७८ ॥ आयतिमिति ॥ सर्वेषां कार्याणामल्पानां बहूनामप्यायतिमुत्तरकालं गुणं दोषं विचारयेत् । वर्तमानकालं च शीघ्रसंपादनाद्यर्थ विचारयेत् । अतीतानां च सर्व- कार्याणां गुणदोषौ किमेषां कृतं विघटितं किं वावशिष्टमित्येवं यथावद्विचारयेत् । यस्मात् ।। १७८ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ १७९ ॥ आयत्यामिति ॥ यः कार्याणामागामिकगुणदोषज्ञः स गुणवत्कार्यमारभते दोप- वत्परित्यजति । यश्च वर्तमानकाले क्षिप्रमेवावधार्य कार्य करोति अतीते कार्य यः कार्यशेषज्ञः स तत्कार्यसमाप्तौ तत्फलं लभते । यस्मादेवंविधकालत्रयसावधान- त्वान्न कदाचिच्छत्रुभिरभिभूयते ॥ १७९ ॥ किं बहुना यथैनं नाभिसंदध्युमित्रोदासीनशत्रवः । तथा सर्व संविध्यादेष सामासिको नयः॥१८॥ यथास्य