पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० मनुस्मृतिः। [ अध्यायः७ एकग्रामाधिकृतस्य वृत्तिमाह- यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ११८ ॥ यानीति ॥ यान्यन्नपानेन्धनादीनि ग्रामवासिभिः प्रत्यहं राज्ञे देयानि त्वंद- कर 'धान्यानामष्टमो भागः' इत्यादिकं तानि नामाधिपतिर्दृत्यथै गृह्णीयात्॥ ५१८॥ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ११९ ॥ दशी कुलमिति ॥ 'अष्टागवं धर्महलं पङ्गवं जीवितार्थिनाम् । चतुर्गवं गृहस्थानां त्रिगवं ब्रह्मघातिनाम्' इति हारीतस्मरणात् । षङ्गवं मध्यमं हलमिति तथाविधहल- द्वयेन पावती भूमिर्वाह्यते तत्कुलमिति वदति तदशनामाधिपतिवृत्त्यर्थ भुञ्जीत । एवं विंशत्यधिपतिः पञ्चकुलानि, शताधिपतिर्मध्यमं ग्राम, सहस्राधिपतिमध्यनं पुरम् ॥ ११९॥ तेषां ग्राम्याणि कार्याणि-पृथकार्याणि चैव हि । राज्ञोऽन्यः सचिव स्निग्धस्तानि पश्येदतन्द्रितः॥१२०॥ तेपामित्यादि ॥ तेषों ग्रामनिवासिप्रभृतीनां परस्परविप्रतिपत्तौ यानि प्राम- भवानि कार्याणि, ताकृतानि च पृथक्कार्याणि, तान्यन्यो राज्ञो हितकृत्तनियु- क्तोऽनलसः कुर्वीत ॥ १२० ॥ नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥१२१ ॥ नगर इति ॥ प्रतिनगरमेकैकमुच्चैःस्थानं कुलादिना महान्तं प्रधानरूपं घोररूप हस्त्यश्वादिसामग्र्या भयजनकं नक्षत्रादिमध्ये भार्गवादिग्रहमिव तेजस्विनं कार्य- दृष्टारं नगराधिपतिं कुर्यात् ॥ १२१ ॥ स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तचरैः ॥ १२२ ॥ स इत्यादि ॥ स नगराधिकृतस्तान्सर्वान्यामाधिपत्यादीनसति प्रयोजने सर्वदा स्वयं स्वबलेनानुगच्छेत् । तेषां च नगराधिकृतपर्यन्तानां सर्वेषामेव यद्राष्ट्रे स्वचेष्टितं तत्तद्विषयनियुक्तैश्चरैः रैः सम्यक्प्रजाः परिणयेदवगच्छेत् ॥ १२२ ॥ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १२३ । राज्ञो हीत्यादि ॥ यस्माद्ये राज्ञो रक्षाधिकृतास्ते बाहुल्येन परस्वग्रहणशील वञ्चकाश्च भवन्ति, तस्मात्तेभ्य इमाः स्वात्मीयाः प्रजा राजा रक्षेत् ॥ १२३ ॥