पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४७ अलब्धमिति ॥ अजितं भूमिहिरण्यादि जेतुमिच्छेत् । जितं प्रयत्नतो रक्षेत् । रक्षितं च वाणिज्यादिना वर्धयेत् । वृद्धं च पात्रेभ्यो दद्यात् ॥ ९९ ॥ एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् । अस्य नित्यमनुष्ठानं सम्यकुर्यादतन्द्रितः॥१०॥ एतदिति ॥ एतच्चतुःप्रकारं पुरुषार्थों यः स्वर्गादिस्तत्प्रयोजनं यस्मादेवंरूपं जानीयात् । अतोऽनलसः सन्सर्वदानुष्टानं कुर्यात् ॥ १० ॥ अलब्धमिच्छेदण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निःक्षिपेत् ॥ १०१ ॥ अलब्धमिति ॥ अलब्धं यद्धस्त्यश्वरथपादातात्मकेन दण्डेन जेतुमिच्छेत् । जितं च प्रत्यवेक्षणेन रक्षेत् । रक्षितं च बुधुपायेन स्थलजलपथवाणिज्यादिना वर्धयेत् । वृद्धं शास्त्रीयविभागेन पात्रेभ्यो दद्यात् ॥ १०१ ॥ नित्यमुद्यतदण्डः स्यानित्यं विकृतपौरुपः। नित्यं संवृतसंवार्यो नित्यं छिद्रानुसायरेः॥ १०२ ॥ नित्यमिति ॥ नित्यं हस्त्यश्वादियुद्धादिशिक्षाभ्यासो दण्डो यस्य स तथा स्यात् । नित्यं च प्रकाशीकृतमस्त्रविद्यादिना पौरुषं यस्य स तथा स्यात् । नित्यं संवृतं संव- रणीयं मन्त्राचारचेष्टादिकं यस्य स तथा स्यात् । नित्यं च शत्रोर्व्यसनादिरूपा... द्रानुसंधानं तत्परः स्यात् ॥ १०२ ॥ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०३ ॥ नित्यमिति ॥ यस्मानित्योद्यतदण्डस्य जगदुद्विजेदिति तस्मात्सर्वप्राणिनो दण्डे- नैवात्मसात्कुर्यात् ॥ १०३ ॥ अमाययैव वर्तेत न कथंचन मायया । बुद्ध्येतारिप्रयुक्तां च मायां नित्यं स्वसंवृतः॥१०४॥ अमाययेति ॥ मायया छद्मतया अमात्यादिषु न वर्तेत । तथा सति सर्वेषाम विश्वसनीयः स्यात् । धर्मरक्षार्थ यथातत्त्वेनैव व्यवहरेत् । यत्नकृतात्मपक्षश्च शत्रु- कृतां प्रकृतिभेदरूपां मायां चारद्वारेण जानीयात् ॥ १०४ ॥ नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १०५ ॥ नेत्यादि ॥ तथा यनं कुर्याद्यथास्य प्रकृतिभेदादि छिद्रं शत्रुर्न जानाति । शन्नोस्तु प्रकृतिभेदादिकं चारैर्जानीयात् । कूर्मो यथा मुखचरणादीन्यङ्गान्यात्मदेहे गोपा-