पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ४५ ॥ दशेत्यादि । दश कामसंभवानि अष्टौ क्रोधजानि वक्ष्यमाणव्यसनानि यत्नत- स्त्यजेत् । दुरन्तानि दुःखावसानान्यादौ सुखयन्ति अन्ते दुःखानि कुर्वन्ति । यद्वा दुर्लभोऽन्तो येपा तानि दुरन्तानि । नहि व्यसनिनस्ततो निवर्तयितुं शक्यन्ते ॥४५॥ वर्जनप्रयोजनमाह- कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥४६॥ कामजेष्विति ॥ यस्मात्कामजनितेषु व्यसनेषु प्रसक्तो राजा धर्मार्थाभ्यां हीयते। क्रोधजेषु प्रसक्तः प्रकृतिकोपाहेहनाशं प्राप्नोति ॥ ४६॥ तानि व्यसनानि नामतो दर्शयति- मृगयाक्षो दिवास्वनः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः॥४७॥ मृगयेत्यादि । आखेटकाख्यो मृगवधो मृगया, अक्षो द्यूतक्रीडा, सकलकार्य- विधातिनी दिवानिद्रा, परदोपकथनं, स्त्रीसंभोगः, मद्यपानजनितो मदः, तौर्य- त्रिकं नृत्यगीतवादित्राणि, वृथाभ्रमणं एष दशपरिमाणो दशकः सुखेच्छाप्रभवो G गण: ॥४७॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुप्यं क्रोधजोऽपि गणोऽष्टकः॥४८॥ पैशुन्यमिनि ॥ पैशुन्यमविज्ञातदोपाविष्करणं, साहसं साधोबन्धनादिनिग्रहः, द्रोहश्छद्मवधः, ईर्ष्याऽन्यगुणासहिष्णुता, परगुणेषु दोषाविष्करणमसूया, अर्थदूष- णमर्थानामपहरणं देयानामदानं च, वक्पारुष्यमाक्रोशादि, दण्डपारुप्यं ताड- नादि, एपोऽष्टपरिमाणो व्यसनगणः क्रोधाद्भवति ॥४८॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तजावेतावुभौ गणौ ॥ ४९ ॥ द्वयोरिति ॥ एतयोर्द्वयोरपि कामक्रोधजव्यसनसङ्घयोः कारणं स्मृतिकारा जान- न्ति तं यत्नतो लोभं त्यजेत् । यस्मादेतद्गणद्वयं लोभाजायते । क्वचिद्धनलोभतः क्वचित्प्रकारान्तरलोभेन प्रवृत्तेः ॥ ४९ ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ ५० ॥ os