पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ मनुस्मृतिः। [अध्यायः ६ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ९० ॥ यथेत्यादि ॥ यथा सर्वे नदीनदा गङ्गाशोणाद्याः समुद्रेऽवस्थितिं लभन्ते एवं गृहस्थादपरे सर्वाश्रमिणस्तदधीनजीवनत्वाद्गृहस्थसमीपेऽवस्थितिं लभन्ते ॥९०॥ चतुर्भिरपि चैवैतेनित्यमाश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः॥ ९१॥ चतुर्भिरित्यादि ॥ एतैर्ब्रह्मचार्यादिभिराश्रमिभिश्चतुर्भिरपि द्विजातिभिर्वक्ष्यमाणो दशविधस्वरूपो धर्मः प्रयत्नतः सततमनुष्ठेयः ॥ ९ ॥ तमेव स्वरूपतः संख्यादिभिश्च दर्शयति- धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ९२ ॥ तिरित्यादि ॥ संतोषो इतिः,परेणापकारे कृते तस्य प्रत्यपकारानाचरणं क्षमा, विकारहेतुविषयसन्निधानेऽप्यविक्रियत्वं मनसो दमः । मनसो दमनं दम इति सनन्दनवचनात् । शीतातपादिद्वन्द्वसहिष्णुता दम इति गोविन्दराजः । अन्यायेन परधनादिग्रहणं स्तेयं तद्भिन्नमस्तेयं, यथाशास्त्रं मृजलाभ्यां देहशोधनं शौचं, विषयेभ्यश्चक्षुरादिवारणमिन्द्रियनिग्रहः, शास्त्रादितत्त्वज्ञानं धीः, आत्मज्ञानं विद्या, यथार्थाभिधानं सत्यं, क्रोधहेतौ सत्यपि क्रोधानुत्पत्तिरक्रोधः, एतद्दशविधं धर्मस्वरूपम् ॥ ९२ ॥ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ९३ ॥ दश लक्षणानीति ॥ ये विप्रा एतानि दशविधधर्मस्वरूपाणि पठन्ति पठित्वा चात्मज्ञानसाचिव्येनानुतिष्ठन्ते ते ब्रह्मज्ञानसमुत्कर्षात्परमां गतिं मोक्षलक्षणां प्रामुवन्ति ॥ ९३॥ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः । वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ ९४ ॥ दशलक्षणकमिति ॥ उक्तं दशलक्षणकं धर्म संयतमनाः सन्ननुतिष्ठन् उपनिप- दाद्यर्थं गृहस्थावस्थायां यथोक्ताध्ययनधर्मान्गुरुमुखादवगम्य परिशोधितदेवा- णत्रयः संन्यासमनुतिष्ठेत् ॥ ९४ ॥ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ९५॥ संन्यस्येति ॥ सर्वाणि गृहस्थानुष्ठेयाग्निहोत्रादिकर्माणि परित्यज्य अज्ञातजन्तुव- धादिकर्मजनितपापानि च प्राणायामादिना नाशयन्नियतेन्द्रिय उपनिषदो ग्रन्थ- तोऽर्थतनाभ्यस्य पुत्रैश्वर्य इति पुत्रगृहे पुत्रोपकल्पितभोजनाच्छादनत्वेन वृत्तिचि-