पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २२७ पापं विसृज्य परं ब्रह्म प्राप्नोति ब्रह्मसाक्षात्कारेणोपाधिशरीरनाशाद्ब्रह्मण्यैक्यं गच्छति ॥ ८५॥ एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निवोधत ॥ ८६ ।। एष धर्म इति ॥ एप यतीनां यतात्मनां चतुर्णामेव कुटीचरबहूदकहंसपरमहं- सानां साधारणो धर्मो वो युष्माकमुक्तः । इदानी यतिविशेषाणां कुटीचराख्यानां वेदविहितादिकर्मयोगिनामसाधारणं वक्ष्यमाणं 'पुत्रैश्वर्य सुखं वसेत्' इति कर्मसं- बन्धं शृणुत । भारते चतुर्धा भिक्षव उक्ताः-'चतुर्धा भिक्षवस्तु स्युः कुटीचरब- हूदको । हंसः परमहंसश्च यो यः पश्चात्स उत्तम.' इति । कुटीचरस्यायं पुत्रभि- क्षाचरणरूपासाधारणकर्मोपदेशः। गोविन्दराजस्तु गृहस्थविशेषमेव वेदोदिताग्नि- होत्रादिकर्मत्यागिनं ज्ञानमात्रसंपादितवैदिककर्माणं वेदसंन्यासिकमाह, तन्न । यतो गृहस्थस्याहिताग्नेरन्त्येष्टौ विनियोगः,चतुर्थाश्रमाश्रयणे चात्मनि समारोपः शास्त्रेणो- च्यते तदुभयाभावे सत्येवमेवाग्नीनां त्यागः स्यात् । गोविन्दराजो गृहस्थं वेदसंन्या- सिकं ब्रुवन् ‘एवमेवाहिताग्नीनां त्यागमर्थादुपेतवान् । वेदसंन्यासिकं मेधातिथिः प्राह निराश्रमम् । तन्मते चातुराश्रम्यनियमोक्तिः कथं मनोः' ॥८६॥ इदानीं वेदसंन्यासिकस्य प्रतिज्ञाते कर्मयोगेऽनन्तरं वक्तुमुचितमपि वेदसंन्या- सिकः पञ्चमाश्रमी निराश्रमी वा चत्वार एवाश्रमा नियता इति दर्शयितुमु- कानाश्रमाननुवदति- ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः॥ ८७ ॥ ब्रह्मचारीति ॥ ब्रह्मचर्यादयो य एते पृथगाश्रमा उक्ता एते चत्वार एव गृहस्थ- जन्या भवन्ति ॥ ८७ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः। यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ८८ ॥ सर्वेपीत्यादि ॥ एते सर्वे चत्वारोऽप्याश्रमाः शास्त्रानतिक्रमेणानुष्ठिताः । अपि- शब्दात्रयो द्वावेकोऽपि यथोक्तानुष्टातारं विप्रं मोक्षलक्षणां गतिं प्रापयन्ति ॥ ८८ ॥ प्रकृतवेदसंन्यासिकस्य गृहे पुत्रैश्वर्ये सुखे वा संवक्ष्यति तदर्थ गृहस्थोत्कर्षमाह- सर्वेषामपि चैतेषां वेदस्मृतिविधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ।। ८९ ॥ सर्वेषामिति ॥ सर्वेषामेतेषां ब्रह्मचार्यादीनां मध्ये गृहस्थस्य श्रूयमाणत्वेन प्राय- शोऽग्निहोत्रादिविधानाद्गृहस्थो मन्वादिभिः श्रेष्ठ उच्यते । तथा यस्माद्ब्रह्मचारिवा- नप्रस्थयतीनसौ भिक्षादानेन पोषयति तेनाप्यसौ श्रेष्ठः । यथोक्तम्-'यस्सायो- ऽप्याश्रमिणो ज्ञानेनानेन चान्वहम्' इति ॥ ८९ ॥