पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१७ 'वनवासादूर्ध्व शान्तस्य पारिगतवयसः परिव्राज्यम्' इत्याचख्यतुः । एवं वनेषु विहृत्यैवं विधिवदुश्वरतपोऽनुष्ठानप्रकारेण वानप्रस्थाश्रमं विषयरागोपशमनाय कंचित्कालमनुष्टाय 'चतुर्थमायुषो भागम्' इति शेषायुःकाले सर्वथा विषयस- झांस्त्यक्त्वा परिव्राजकाश्रममनुतिष्ठेत् ॥ ३३ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तःप्रव्रजन्प्रेत्य वर्धते ॥ ३४॥ आश्रमादिति ॥ पूर्वपूर्वाश्रमादुत्तरोत्तराश्रमं गत्वा ब्रह्मचर्याद्गहाश्रमं ततो वानप्रस्थाश्रममनुष्टायेत्यर्थः । यथाशक्ति गताश्रमहुतहोमो जितेन्द्रियो भिक्षाब- लिदानचिरसेवया श्रान्तः परिव्रज्याश्रममनुतिष्ठन्परलोके मोक्षलाभाब्रह्मभूत- तिशयं प्राप्नोति ॥ ३४ ॥ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ३५॥ ऋणानीत्यादि ॥ आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उत्तरश्लोकाभिधेयानि त्रीण्यृणानि संशोध्य मोक्षे मोक्षान्तरङ्गे परिव्रज्याश्रमे मनो नियोजयेत् । तान्यृणानि त्वसंशोध्य मोक्षं चतुर्थाश्रममनुतिष्ठन्नरकं ब्रजति ॥ ३५ ॥ तान्येवर्णानि दर्शयति- अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ३६ ॥ अधीत्येति ॥ 'जायमानो वै ब्राह्मणस्त्रिभित्रणैणवा जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्यः' इति श्रूयते । अतो यथाशास्त्रं वेदानधीत्य पर्वगमनवर्जनादिधर्मेण च पुत्रानुत्पाद्य यथासामर्थ्य ज्योतिष्टोमादियज्ञांश्चानुष्ठाय मोक्षान्तरङ्गे चतुर्थाश्रमे मनो नियोजयेत् ॥ ३६ ॥ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्त्रजत्यधः ॥ ३७॥ अनधीत्येति ॥ वेदाध्ययनमकृत्वा पुत्रमनुत्पाद्य यज्ञांश्चाननुष्टाय मोक्षमिच्छ- नरकं व्रजति ॥ ३७ ॥ प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रबजेट्टहात् ॥ ३८ ॥ प्राजापत्यामिति ॥ यजुर्वेदीयोपाख्यानग्रन्थोक्तां सर्वस्वदक्षिणां प्रजापतिदेवता- कामिष्टिं कृत्वा तदुक्तविधिनैव 'आत्मन्यग्नीन्समारोप्य गृहात्' इत्यभिधानाद्वान- प्रस्थाश्रममनुष्टायैव चतुर्थाश्रममनुतिष्ठेत् । एतेन मनुना चातुराश्रमस्य समुच्च- योऽपि दर्शितः । श्रुतिसिद्धाश्चैकद्वित्रिचतुराश्रमाणां समुच्चया विकल्पिताः । तथा मनु० १९