पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ मनुस्मृतिः। यायः६ जाबालश्रुतिः-'ब्रह्मचर्य समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । इतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा' ॥ ३८ ॥ यो दत्त्वा सर्वभूतेभ्यः प्रबजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥३९॥ य इत्यादि ॥ यः सर्वेभ्यो भूतारब्धेभ्यः स्थावरजङ्गमेभ्योऽभयं दत्त्वा गृहान- मात्प्रव्रजति तस्य ब्रह्मप्रतिपादकोपनिपन्निष्टस्य सूर्याद्यालोकरहिता हिरण्यगर्भादेर्लो- कास्तत्तेजसैव प्रकाशा भवन्ति । तानाप्नोतीत्यर्थः ॥ ३९ ॥ यस्मादण्वपि भूतानां द्विजानोत्पद्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ४० ॥ यस्मादित्यादि ॥ यस्माविजात्सूक्ष्ममपि भयं भूतानां न भवति तस्य देहाद्विमु- क्तस्य वर्तमानदेहनाशे कस्मादपि भयं न भवति ॥ ४० ॥ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः। समुपोढेषु कामेषु निरपेक्षः परित्रजेत् ॥ ४१ ॥ अगारादिति॥ गृहानिर्गतः पवित्रैर्दण्डकमण्डल्वादिभिर्युक्तो मुनिमौंनी समुपो- ढेषु कामेषु केनचित्सम्यक्समीपं प्रापितेपु स्वाद्वन्नादिषु विगतस्पृहः परिव्रजेन् । मेधातिथिस्तु 'पवित्रैमत्रजपैरथवा पावनैः कृच्छ्रेर्युक्तः' इति व्याचष्टे ॥ ४१ ॥ एक एव चरेनित्यं सिद्ध्यर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥ ४२ ॥ एक इत्यादि । एकस्य सर्वसङ्गविरहिणो मोक्षावाप्तिर्भवतीति जाननेक एव सर्व- दापि मोक्षार्थ चरेत् । एक एवेत्यनेन पूर्वपरिचितपुत्रादित्याग उच्यते । असहाय- बानित्युत्तरस्यापि एकाकी यदि चरति स किंचिन्न त्यजति न कस्यापि त्यागेन दुः- खमनुभवति नापि केनापि त्यज्यते न कोऽप्यनेन त्यागदुःखमनुभाव्यते । ततश्च सर्वत्र निर्ममत्वः सुखेन मुक्तिमाप्नोति ॥ ४२ ॥ अनग्निरनिकेतः स्याद्धाममन्नार्थमाश्रयेत् । उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः॥४३॥ अनग्निरित्यादि॥अनग्निलौकिकाग्निसंयोगरहितः शास्त्रीयाग्निं समारोप्येति पूर्व- मुक्तत्वात् । अनिकेतो गृहशून्यः, उपेक्षकः शरीरस्य व्याध्याद्युत्पादे तत्प्रतीकारर- हितः, असंकुसुकः स्थिरमतिः, असंचयिक इत्यन्ये पठन्ति । मुनिब्रह्ममननान्मो- नस्य पूर्वोक्तत्वात् । भावेन ब्रह्मणि समाहितस्तदेकतानमनाः अरण्ये च दिवारानी बसन्भिक्षार्थमेव ग्रामं प्रविशेत् ॥ ४३ ॥ कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्वमिन्नेतन्मुक्तस्य लक्षणम् ॥ ४४ ॥ .. "