पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ५] गन्ध मुक्तावलीसंवलिता ! २०१

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मदा चैव शुद्धिरुक्ता मनीषिभिः॥१११॥

तैजसेति ॥ तैजसानां सुवर्णादीनां भरकतादिमणीनां पापाणमयस्य च सर्वस्य भस्मना जलेन मृत्तिकथा च मन्वादिभिः शुद्धिरुक्ता । निलेपस्य जलेनैवान्तरं शुद्वद्धेर्वक्ष्यमाणन्यादिदमुच्छिष्टघृतादिलिप्तविश्यम् । तत्र मृद्भस्मनोर्गन्धक्षयककार्यत्वाद्विकल्पः ! आपस्तूभवत्र समुच्चीयन्ते ॥ १११ ॥

निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ११२ ॥

निर्लेपमिति ॥ उच्छिष्टादिलेपरहितं सौवर्णभाण्डं, जलभवं च शङ्खमुक्तादि, पाषाणमयं च राजतमनुपस्कृतं रेखादिगुणान्तराधानरहितं तथाविधनलासंभवाज्जलेनैव भस्मादिरहितेन शुध्यति ॥११२।।

अपामग्नेश्च संयोगाद्धेमं रौप्यं च निर्वंशौ।
तस्मायोः सयोन्वैव निर्गेको गुणवत्तरः ।।११३॥

अपमग्नेरिति, अग्पिनिर्वै वरुणनीरकाप्रयत' इत्यादि वेदे श्रूयते । तथा 'अग्नेः सुवर्णमिन्द्रियं, वरुणानीनां रजतम्' इत्यादिश्रुतिप्वग्न्यापः संयोगात्सुवर्णं रजतं चोद्भुतं यत्पादतस्तयोः स्वेन कारणेनैव जलेनात्यन्तोपघातेनाग्निना निर्णेकः शुद्धिहेतुर्गुणवत्तरः प्रशस्ततरः ॥ ११३ ॥

ताम्रायःकांस्यरैत्यानां वपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ११४ ॥

ताम्राय इति ॥ अयो लौहं, रीतिः पित्तलं तद्भवं पात्रं रैत्यं, त्रपु रङ्गं, एषां भस्माल्लोडकै. शोधनं कर्तव्यम् । यथार्हं यस्य यदर्हति । 'अम्भसा हेमरौप्यायःकांस्यं शुध्यति भस्मना । अम्लैस्तानं च रैत्यं च पुनःपाकेन मृन्मयम्' इति बृहस्पत्यादिवचनाद्विशेषोऽत्र बोद्धव्यः ॥ ११४ ॥

द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ११५॥

द्रावाणां चेनि ॥ द्रावाणां घृततैलानां काककीटाद्युपहतानां बौधायनादिवचनाप्रससृतिमात्रप्रमाणानां प्रादेशप्रमाणकुशपत्रद्वयाभ्यामुत्पवनेन शुद्धिः। संहतानां च शय्यादीनामुच्छिष्टाछुपघाते प्रोक्षणं, दारवाणां चात्यन्तोपघाते तक्षणेन ॥ ११५॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥११६ ॥