पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सद्यः १९८ मनुस्मृतिः) [ अध्यायः५ तानां, यस्य पुरोहितादेः स्वकार्याविघातार्थं नृपतिरशौचाभावमिच्छति तस्यापि प्रःशौचम् ॥ ९५॥ सोमान्यकोनिलेन्द्राणां वित्ताप्पत्योयमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः॥ ९६ ॥ सोमेति ॥ चन्द्राग्निसूर्यवायुशक्रयमानां वित्तस्यापां च पत्योः कुबेरवरुणयोरे- वमष्टानां लोकपालानां संबन्धि देहं राजा धारयति ॥ ९६ ॥ तत. किमत आह- लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मानां लोकेशप्रभवाप्ययम् ॥ ९७ ॥ लोकेशेति ॥ यतो लोकेशांशाकान्तो नृपतिरतो नास्याशौचमुपदिश्यते । य- स्मान्मनुष्याणां यच्छौचमशौचं वा तल्लोकेशेभ्यः प्रभवति विनश्यति च । अ- प्ययो विनाशः । एतेनान्यदीयशौचाशौचोत्पादनविनाशशक्तस्य लोकेश्वररूपस्य नृपतेः कुतः स्वकीयाशौचमिति पूर्वोक्ताशौचाभावस्तुतिः ॥ ९७ ॥ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस च । सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः॥९८॥ उद्यतैरिति ॥ उद्यतैः शस्त्रैः खड्गादिभिर्नतु लगुडपाषाणादिभिरपराङ्मुखत्वा- दिक्षत्रियधर्मयुक्तसंग्रामे हतस्य तत्क्षणादेव ज्योतिष्टोमादियज्ञः संतिष्ठते । समा- प्तिमेवेति तत्पुण्येन युज्यत इत्यर्थः । तथाशौचमपि तत्क्षणादेव समाप्तिमेति इयं शास्त्रे मर्यादा ॥ ९८ ॥ विप्रः शुद्ध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः॥९९ ॥ विन इति ॥ अशौचान्ते कृतश्राद्धादिकृत्यो ब्राह्मणोऽपः स्पृष्ट्वेति जलस्प- मात्रं दक्षिणहस्तेन कृत्वा शुद्धो भवति नतु 'संवत्सरे व्यतीते तु स्पृष्टरद्भिर्वि- शुद्ध्यति' इतिवत् स्नात्वा वाहनादिस्पर्शसाहचर्यास्पृष्ट्वेत्यस्य च सकृदुञ्चरितस्यार्थ- भेदस्यान्याय्यत्वात्क्षत्रियो हस्त्यादिवाहनं खगायत्रं च, वैश्यो बलीवादिग्रतोदं लोहप्रोताग्रं योक्त्रं वा, शूद्रो यष्टिं वंशदण्डिकाम् ॥ ९९ ॥ एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः। असपिण्डेषु सर्वेषु प्रेतशुद्धिं निवोधत ॥ १०० ॥ एतदिति ॥ भो द्विजश्रेष्टाः, एतच्छौचं सपिण्डेषु तेषु युप्माकमुक्तम् । इदा- नीमसपिण्डेषु प्रेतशुद्धिं शृणुत ॥ १० ॥ असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुद्ध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ १०१॥