पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
[ अध्यायः ५
मनुस्मृतिः।

 श्वाविधमिति ॥ श्वाविधं सेधाख्यं प्राणिभेदं, शल्यकं तत्सदृशं स्थूललोमानं, तथा गोधागण्डककच्छपशशान्पञ्चनखेषु भक्ष्यान्मन्वादयः प्राहुः । तथोष्ट्रवर्जितानेकदन्तपङ्क्तयुपेतान् ॥ १८ ॥

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥ १९ ॥

 छत्राकमिति ॥ कवकग्रामसूकरलशुनादीनामन्यतमं बुद्धिपूर्वकं गुरुप्रायश्चित्तोपदेशादभ्यासतो भक्षयित्वा द्विजातिः पतति । ततश्च पतितप्रायश्चित्तं कुर्यात् । 'गर्हितानां तथा जग्धिः सुरापानसमानि षट्' इति ॥ १९ ॥

अमत्यैतानि षट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥२०॥

 अमत्येति ॥ एतानि छत्राकादीनि षट् बुद्धिपूर्वकमेव भक्षयित्वाऽभिधेयभक्षणस्य निमित्तत्वेन साहित्यस्याविवक्षितत्वात् । एकादशाध्यायवक्ष्यमाणस्वरूपं सप्ताहसाध्यं सान्तपनं यतिचान्द्रायणं वा चरेत् । एतद्व्यतिरिक्तेषु लोहितवृक्षनिर्यासादिषु प्रत्येकं भक्षणादहोरात्रोपवासं कुर्यात् । छत्राकादीनां च प्रायश्चित्तापकर्षो वर्जनादरार्थः । शेषेषूपवसेदहः इति लाघवार्थं । तत्रहि क्रियमाणे लोहितनिर्यासग्रहणमपि कर्तव्यं स्यात् ॥ २० ॥

संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ २१ ॥

 संवत्सरस्येति ॥ द्विजोत्तमपदं द्विजातिपरम् । त्रयाणां प्रकृतत्वात्, 'एतदुक्तं द्विजातीनाम्' इत्युपसंहाराच्च । द्विजातिः संवत्सरमध्ये एकमपि कृच्छ्रं प्रथमाम्नानात्प्राजापत्याख्यमज्ञातभक्षणदोषोपशमनार्थमनुतिष्ठेत्। ज्ञातस्य पुनरभक्ष्यभक्षणदोषस्य विशेषतो यत्र यद्विहितं तदेव प्रायश्चित्तं कुर्यात् । यत्तु-'त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते' इति तद्द्रव्यशुद्धिप्रकरणपठितप्रायश्चित्तव्यतिरिक्तद्रव्यशुद्धिविशेषेऽवतिष्ठते ॥२१॥

 इदानीं भक्षणप्रसङ्गेन यागाद्यर्थे हिंसामप्यनुजानाति-

यज्ञार्थे ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः।
भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ ॥

 यज्ञार्थमिति ॥ ब्राह्मणादिभिर्यागार्थं प्रसस्ताः शास्त्रविहिता मृगपक्षिणो वध्याः । भृत्यानां चावश्यभरणीयानां वृद्धमातापित्रादीनां संवर्धनार्थम् । यस्मादगस्त्यो मुनिः पूर्वे तथा कृतवान् । प्रकृतिरूपोऽयमनुवादः ॥ २२ ॥

बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ ॥