पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
[ अध्यायः ५
मनुस्मृतिः ।

अथ पञ्चमोऽध्यायः॥

श्रुत्वैतानृषयो धर्मान्नातकस्य यथोदितान् ।
इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥१॥

 श्रुत्वैतानिति ॥ ऋषयः स्नातकस्यैतान्यथोदितधर्माञ्छ्रुत्वा महात्मानं परमार्थपरं भृगुमिदं वचनमब्रुवन् । यद्यपि प्रथमाध्याये दशप्रजापतिमध्ये 'भृगुं नारदमेव च' इति भृगुसृष्टिरपि मनुत एवोक्ता तथापि कल्पभेदेनाग्निप्रभवत्वमुच्यते । तथाच श्रुतिः-'तस्य यद्रेतसः प्रथमं देदीप्यते तदसावादित्योऽभवद्यद्द्वितीयमासीद्भृगुः' इति । अतएव भ्रष्टाद्रेतस उत्पन्नत्वाद्भृगुः ॥ १ ॥

एवं यथोक्तं विप्राणां खधर्ममनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥२॥

 एवमिति ॥ एवं यथोक्तं स्वधर्मं कुर्वतां ब्राह्मणानां श्रुतिशास्त्रज्ञानां वेदोदितायुषः पूर्वं कथं मृत्युः प्रभवति । आयुरल्पत्वहेतोरधर्माचरणस्याभावात् । सकलसंशयोच्छेदनसमर्थत्वात्प्रभो इति संबोधनम् ॥ २ ॥

स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर्विप्राञ्जिघांसति ॥३॥

 स तानिति ॥ स मनोः पुत्रो भृगुर्धर्मस्वभावो येन दोषणाल्पकाले विप्रान्हन्तुमिच्छति मृत्युः स दोषः श्रूयतामित्येवं तान्महर्षीञ्जगाद ॥ ३ ॥

अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ ४॥

 अनभ्यासेनेति ॥ वेदानामनभ्यासात् स्वीयाचारपरित्यागात् , सामर्थ्ये सत्यवश्यकर्तव्यकरणानुत्साहलक्षणादालस्थात् , अदनीयदोषाच्च मृत्युर्विप्रान्हन्तुमिच्छति । एतेषामधर्मोत्पादनद्वारेणायुःक्षयहेतुत्वात् ॥ ४ ॥

 वेदानभ्यासादेरुक्तत्वादनुक्तमन्नदोषमाह-

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवाणि च ॥५॥

 लशुनमिति ॥ लशुनगृञ्जनपलाण्ड्वाख्यानि त्रीणि स्थूलकन्दशाकानि, कवकं छत्राकं, अमेध्यप्रभवाणि विष्ठादिजातानि तन्दुलीयादीनि । द्विजातीनामिति याज्ञवल्क्यवचनादेतानि द्विजातीनामभक्ष्याणि । द्विजातिग्रहणं शूद्रपर्युदासार्थम् ॥ ५॥

लोहितान्वृक्षनिर्यासान्वृश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥६॥