पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[ अध्यायः ४
मनुस्मृतिः।

यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ २३७ ॥

 यज्ञ इति ॥ अनृतेन हेतुना यज्ञः क्षरति । सत्येनैव स फलं साधयति । एवं तपसि दाने च योज्यम् । विप्रनिन्दया चायुः क्षीयते ॥ २३७ ॥

धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः।
परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ २३८ ॥

 धर्ममिति ॥ सर्वप्राणिनां पीडां परिहरन्परलोकसहायार्थं यथाशक्ति शनैःशनैर्धर्ममनुतिष्ठेत् । यथा पुत्तिकाः पिपीलिकाप्रभेदाः शनैःशनैर्महान्तं मृत्तिकाकूटं संचिन्वन्ति ॥ २३८ ॥

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ २३९ ॥

 नामुत्रेति ॥ यस्मात्परलोके सहायकार्यसिद्ध्यर्थं न पितृमातृपत्नीज्ञातयस्तिष्ठन्ति किंतु धर्म एवैकोऽद्वितीयभावेनोपकारार्थमवतिष्ठते । तस्मात्पुत्रादिभ्योऽपि महोपकारकं धर्ममनुतिष्ठेत् ॥ २३९ ॥

एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४० ॥

 एक इति ॥ एक एव प्राण्युत्पद्यते न बान्धवैः सहितः । एक एव च म्रियते। सुकृतफलमपि स्वर्गादिकं, दुरितफलं च नरकादिकमेक एव भुङ्क्ते न मात्रादिभिः सह । तस्मान्मात्राद्यपेक्षयापि धर्मं न त्यजेत् ॥ २४० ॥

मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ २४१ ॥

 मृतमिति ॥ मृतं शरीरं मनःप्राणादित्यक्तं लोष्टवदचेतनं भूमौ त्यक्त्वा पराङ्मुखा बान्धवा यान्ति न मृतं जीवमनुयान्ति, धर्मस्तु तमनुगच्छति ॥ २४१ ॥

तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ २४२ ॥

 तस्मादिति ॥ यस्माद्धर्मेण सहायेन दुस्तरं तमो नरकादिदुःखं तरति तस्माद्धर्मं सहायभावेन सततं शनैरनुतिष्ठेत् ॥ २४२ ॥

धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
परलोकं नयत्याशु भावन्तं खशरीरिणम् ॥ २४३ ॥

 धर्मप्रधानमिति ॥ धर्मपरं पुरुषं दैवादुपजाते पापे प्राजापत्यादितपोरूपप्रायश्चित्तेन हतपापं दीप्तिमन्तं प्रकृतो धर्म एव शीघ्रं ब्रह्म स्वर्गादिरूपं परलोकं नयति । खं ब्रह्मेत्याद्युपनिषत्सु खशब्दस्य ब्रह्मणि प्रयोगः । खशरीरिणं ब्रह्मस्वरूपमित्यर्थः।