श्रोत्रियस्येति ॥ एकोऽधीतवेदः कृपणश्व, परो दाता वृद्धिजीवी च तयोरुभयोरपि गुणदोषवत्त्वं विचार्य देवास्तुल्यमन्नमनयोरिति निरूपितवन्तः । उभयोरपि गुणदोषसाम्यात् ॥ २२४ ॥
तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् । |
तानिति ॥ तान्देवानागत्य ब्रह्मा प्रोवाच विषममन्नं मा समं कुरुत । विषमसमीकरणमनुचितम् । कः पुनरनयोर्विशेष इत्यपेक्षायां स एवावोचत् । दानशीलवार्धुषिकस्यापि श्रद्धयान्नं पवित्रं भवति । कृपणान्नं पुनरश्रद्धया हतं दूषितमधमं प्रागुभयप्रतिषेधेऽपि श्रद्धादत्तविद्वद्वार्धुषिकान्नविशुद्धिबोधनपरमिदम् ॥ २२५ ॥
अत एवाह-
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । |
श्रद्धयेति ॥ इष्टमन्तर्वेदि यज्ञादिकर्म, पूर्तं ततोऽन्यत्पुष्करिणीकूपप्रपारामादि, तदेवमनलसः सन्नित्यं काम्यस्वर्गादिफलरहितं श्रद्धया कुर्यात् । यस्मात्ते इष्टापूर्ते न्यायार्जितधनेन श्रद्धया कृतेऽक्षये मोक्षफले भवतः ॥ २२६ ॥
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् । |
दानधर्ममिति ॥ दानाख्यं धर्ममैष्टिकं पौर्तिकमन्तर्वेदिकं बहिर्वेदिकं च सर्वदा विद्यातपोयुक्तं ब्राह्मणमासाद्य परितुष्टान्तःकरणयुक्तः यथाशक्ति कुर्यात् ॥ २२७ ॥
यत्किंचिदपि दातव्यं याचितेनानसूयया । |
यत्किंचिदिति ॥ प्रार्थितेन परगुणामत्सरेणान्नमपि यथाशक्ति दातव्यम् । यस्मात्सर्वदा दानशीलस्य कदाचित्तादृशं पात्रमागमिष्यति तत्सर्वस्मान्नरकहेतोर्मोचयिष्यति ॥ २२८ ॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः। |
वारिद इति ॥ जलदः क्षुत्पिपासाविगमात्तृप्तिं, अन्नदोऽत्यन्तसुखं, तिलप्रद ईप्सितान्यपत्यादीनि, दीपदो विप्रवेश्मादौ निर्दोषं चक्षुः प्राप्नोति ॥ २२९ ॥
भूमिदो भूमिमाग्नोति दीर्घमायुर्हिरण्यदः। |
भूमिद इति ॥ भूमिदो भूमेराधिपत्यं, सुवर्णदश्चिरजीवित्वं, गृहदः श्रेष्ठानि वेश्मानि, रुप्यदः सकलजननयनमनोहरं रूपं लभते ॥ २३० ॥