पिशुनानृतिनोश्चान्नं ऋतुविक्रयिणस्तथा । |
पिशुनेति ॥ पिशुनः परोक्षे परापवादभाषणपरः, अनृतीत्यतिशयेनानृतवादी क्रुटसाक्ष्यादिः, क्रतुविक्रयिकः मदीययागस्य फलं तव भवत्वित्यभिधाय यो धनं गृह्णाति, शैलूषो नटः, तुन्नवायः सौचिकः, कृतघ्नो यः कृतोपकारस्यापकारे प्रवर्तते तस्यान्नं न भुञ्जीत ॥ २१४ ॥
कर्मारस्य निषादस्य रङ्गावतारकस्य च । |
कर्मारस्येति ॥ कर्मारस्य लोहकारस्य, निषादस्य दशमाध्यायोक्तस्य, नटगायनव्यतिरिक्तस्य रङ्गावतरणजीविनः, सुवर्णकारस्य, वेणोर्भेदनेन यो जीवति, बुरुड इति विश्वरूपः । शस्त्रं लोहः तद्विक्रयिणश्चान्नं न भुञ्जीत ॥ २१५ ॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । |
श्ववतामिति ॥ आखेटकाद्यर्थं शुनः पोषकाणां, मद्यविक्रयिणां, वस्त्रधावकस्य, कुसुम्भादिना वस्त्ररागकृतः, निर्दयस्य, यस्य चोपपनिर्गृहे जारश्च यस्याज्ञानतो गृहे स्थितस्तस्य गेहे नाद्यात् ॥ २१६ ॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः। |
मृष्यन्तीति ॥ गृह इत्यनुषज्यते । गेहे ज्ञातं भार्याजारं ये सहन्ते तेषामन्नं न भुञ्जीत । तेन गृहान्निःसारिताया जारसहने नैष दोषः । तथा सर्वकर्मसु स्त्रीपरतन्त्राणां, अनिर्गताशौचं च सूतकान्नं, अतुष्टिकरमेव च न भुञ्जीत ॥ २१७ ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । |
राजान्नमिति ॥ राजान्नं तेजो नाशयति । इतएव दोषदर्शनात्तदन्नभक्षणनिषेधः कल्प्यते । एवमुत्तरत्रापि पूर्वमनिषिद्धस्य दोषदर्शनादेव निषेधकल्पनम् । 'नाद्याच्छूद्रस्य पक्वान्नम्' इति निषेधिप्यति तदतिक्रमणफलकथनमिदम् । शूद्रस्य पक्वान्नमध्ययनादिनिमित्तं तेजो नाशयति । सुवर्णकारस्यान्नमायुः, चर्मकारान्नं ख्यातिं नाशयति ॥ २१८ ॥
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । |
कारुकान्नमिति ॥ कारुकस्य सूपकारादेरन्नं प्रजामपत्यं निहन्ति । चर्मकारादेः