पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
[अध्यायः ४
मनुस्मृतिः।

 श्रुतिस्मृत्युदितमिति ॥ वेदस्मृतिभ्यां सम्यगुक्तं स्वेषु कर्मस्वध्ययनादिष्वङ्गत्वेन संबद्धं धर्मस्य हेतुं साधूनामाचारमनलसः सन्नितान्तं सेवेतेति सामान्येनाचारानुष्ठानोपदेशः फलकथनाय ॥ १५५ ॥

आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ १५६ ॥

 आचारादिति ॥ आचाराद्वेदोक्तमायुर्लभते, अभिमताश्च प्रजाः पुत्रपौत्रदुहितात्मिकाः, प्रभूतं च धनं, अशुभफलसूचकं च देहस्थमलक्षणमाचारो निष्फलयति । आचाराख्यधर्मेणालक्षणसूचितारिष्टनाशात् ॥ १५६ ॥

दुराचारो हि पुरुषो लोके भवति निन्दितः।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ १५७ ॥

 दुराचारो हीति ॥ यस्माद्दुराचारः पुरुषो लोके गर्हितः स्यात्सर्वदा दुःखान्वितो रोगवानल्पायुश्च भवति तस्मात्सदाचारयुक्तः स्यात् ॥ १५७ ॥

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १५८ ॥

 सर्वलक्षणहीनोऽपीति ॥ यः सदाचारवाञ्श्रद्धान्वितः परदोषानभिधाता स शुभसूचकलक्षणशून्योऽपि शतायुर्भवति ॥ १५८ ॥

यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः॥ १५९ ॥

 यद्यत्परेति ॥ यद्यत्कर्म पराधीनं परमार्थनादिसाध्यं तत्तद्यत्नतो वर्जयेत् । यद्यत्स्वाधीनदेहव्यापारसाध्यं परमात्मग्रहादि तत्तद्यत्नतोऽनुतिष्ठेत् ॥ १५९ ॥

 अत्र हेतुमाह-

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ १६० ॥

 सर्वं परवशमिति ॥ सर्वं परप्रार्थनादिसाध्यं दुःखहेतुः । सर्वमात्माधीनं सुखहेतुः । एतत्सुखदुःखयोः कारणं जानीयात् ॥ १६०॥

यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ १६१॥

 यत्कर्म कुर्वत इति ॥ यत्कर्म कुर्वतोऽस्यानुष्ठातुः पुरुषस्यान्तरात्मनस्तुष्टिः स्यात्तत्प्रयत्नतोऽनुष्ठेयम् । अतुष्टिकरं वर्जयेत् । एतच्चाविहितानिषिद्धगोचरं वैकल्पिकविषयं च ॥ १६॥

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंसाद्ब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥ १६२ ॥