पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१५५
मन्वर्थमुक्तावलीसंवलिता।

 पशुमण्डूकेति ॥ पशुर्गवादिः मण्डूकबिडालकुकुरसर्पनकुलमूषकैः शिष्योपाध्याययोर्मध्यागमनेऽनध्यायमहोरानं जानीयात् ॥ १२६ ॥

 संप्रति विद्यानैपुण्यकामं प्रति पूर्वोक्तानध्यायविकल्पार्थमाह-

द्वविव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः।
स्वाध्यायभूमिं चाशुद्धामात्मानं चाशुचिं द्विजः॥१२७ ।।

 द्वावेवेति ॥ स्वाध्यायभूमिं चोच्छिष्टाद्यमेध्योपहतां आत्मानं च यथोक्तशौचरहितमिति द्वावेवानध्यायौ नित्यं प्रयत्नतो वर्जयेन्न तु पूर्वोक्तान् । तेषामपि यत्र नित्यग्रहणमनुवादो वा नित्यत्वख्यापको वास्ति तानपि नित्यं वर्जयेत् । अन्यत्र विकल्पः ॥ १२७ ॥

अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ १२८ ॥

 अमावास्यामिति ॥ अमावास्यादिष्वृतावपि स्नातको द्विजो न स्त्रियमुपगच्छेत् । 'पर्ववर्जं व्रजेच्चैनाम्' इत्यनेनैव निषेधसिद्धौ स्नातकव्रतलोपप्रायश्चित्तार्थमिह पुनर्वर्जनम् ॥ १२८ ॥

न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ १२९ ॥

 न स्नानमिति ॥ नित्यस्नानस्य भोजनानन्तरमप्रसक्तेश्चाण्डालादिस्पर्शनित्तकस्य 'मुहूर्तमपि शक्तिविषये नाप्रयतः स्यात्' इत्यापस्तम्बस्मरणान्निषेध्दुमयोग्यत्वाद्यदृच्छास्नानमिदं भोजनानन्तरं निषिध्यते । तथा रोगी नैमित्तिकमपि स्नानं न कुर्यात् किंतु यथासामर्थ्यं 'अशिरस्कं भवेत्स्नानं स्नानाशक्तो तु कर्मिणाम् । आर्द्रेण वाससा वा स्यान्मार्जनं दैहिकं विदुः' इत्यादिजाबालाद्युक्तमनुसंधेयम् । तथा 'महानिशात्र विज्ञेया मध्यस्थं प्रहरद्वयम् । तस्मिन्स्नानं न कुर्वीत काम्यनैमित्तिकादृते' इति देवलवचनात्तत्र न स्नायात् । बहुवासाश्च नित्यं न स्नायात् । नैमित्तिकचाण्डालादिस्पर्शे सति तु स्नानं बहुवाससोऽप्यनिषिद्धम् । ग्राहाद्याक्रान्तागाधरूपतया च विशेषेणाज्ञाते जलाशये च ॥ १२९ ॥

देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा ।
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ १३०॥

 देवतानामिति ॥ देवतानां पाषाणादिमयीनां, गुरोः पित्रादेः, नृपतेः, स्नातकस्याचार्यस्य च । गुरुत्वेऽप्याचार्यस्य प्राधान्यविवक्षया पृथङ्निर्देशः । बभ्रुणः कपिलस्य यज्ञे दीक्षितस्यावभृथस्नानात्पूर्वमिच्छया छायां नाक्रामेत् । चशब्दाच्चाण्डालादीनामपि । कामत इत्यभिधानादबुद्धिपूर्वके न दोषः ॥ १३० ॥