पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
[अध्यायः ४
मनुस्मृतिः

न विवादे न कलहे न सेनायां न संगरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ १२१ ॥

 न विवाद इति ॥ विवादे वाक्कलहे, कलहे दण्डादण्ड्यादौ, सेनायामप्रवृत्तयुद्धायां, संगरे युद्धे, भोजनानन्तरं च यावदार्द्रहस्तः। 'यावदार्द्रपाणिः' इति वसिष्ठस्मरणात् । तथाजीर्णेऽन्ने, वमनं च कृत्वाम्लोद्गारे च न पठेत् ॥ १२१ ॥

अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥ १२२ ॥

 अतिथिमिति ॥ अध्ययनं करोमीति यावदतिथिरनुज्ञापितो न भवति, मारुते चात्यर्थं वाति, रुधिरे च गात्रात्स्नुते, रुधिरस्रावं विनापि शस्त्रेण क्षतमात्रेऽपि नाधीयीत ॥ १२२ ॥

सामध्वनावृग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥ १२३ ॥

 सामध्वनाविति ॥ सामध्वनौ च श्रूयमाणे ऋग्यजुषोः कदाचिध्ययनं न कुर्यात् । वेदं च समाप्य आरण्यकाख्यं च वेदैकदेशमधीत्य तदहोरात्रे वेदान्तरं नाधीयीत ॥ १२३ ॥

ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः॥१२४ ॥

 ऋग्वेद इति ॥ सामगानश्रुतौ ऋग्यजुपोरनध्याय उक्तस्तस्यायमनुवादः । ऋग्वेदो देव एव देवतास्येति देवदैवत्यः । यजुर्वेदो मानुषो मानुषदेवताकत्वात् । प्रायेण मानुषकर्मोपदेशाद्वा मानुषः । सामवेदः पितृदेवताकत्वात्पित्र्यः। पितृकर्म कृत्वा जलोपस्पर्शनं स्मरन्ति तस्मात्तस्याशुचिरिव ध्वनिः न त्वशुचिरेव । अतस्तस्मिञ्छ्रूयमाणे ऋग्यजुषी नाधीयीत ॥ १२४ ॥

एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् ।
क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ १२५ ॥

 एतद्विदन्त इति ॥ एतद्वेदत्रयस्य देवमनुष्यपितृदेवताकत्वं जानन्तः शास्त्रज्ञास्त्रयीनिष्कर्षं सारोद्धृतं प्रणवव्याहृतिसावित्र्यात्मकं प्रणवव्याहृतिसावित्रीः क्रमेण पूर्वमधीत्य पश्चाद्वेदाध्ययनं कुर्युः । द्वितीयाध्यायोक्तोऽप्ययमर्थः पुनरनध्यायप्रकरणेऽभिहितः। यथैते यथोक्तानध्याया एवं प्रणवव्याहृतिसावित्रीष्वपठितास्वनध्याय इति दर्शयितुं शिष्यस्याध्यापनमेवं कर्तव्यमिति स्नातकव्रतत्वावगमार्थं च॥ १२५॥

पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः ।
अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ १२६ ॥