पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१४७
मन्वर्थमुक्तावलीसंवलिता।

यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ।
सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ८१ ॥

 यो ह्यस्येति ॥ यस्माद्योऽस्य शूद्रस्य धर्मं ब्रूते यश्च प्रायश्चित्तमुपदिशति स तेन शूद्रेणैव सहासंवृताख्यं तमो गहनं नरकं प्रविशति । पञ्चसु पूर्वोक्तेषु द्वयोर्दोषकथनं प्रायश्चित्तगौरवार्थम् ॥ ८१ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः।
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः॥ ८२ ॥

 न संहताभ्यामिति ॥ संश्लिष्टाभ्यां पाणिभ्यां न कण्डूयेदात्मनः शिरः। उच्छिष्टः स्वशिरो न स्पृशेत् । शिरसा विनोन्मज्जनव्यतिरेकेण नित्यनैमित्तिकस्नाने न कुर्यात् । दृष्टार्थे शिरोव्यतिरिक्तगात्रप्रक्षालने न दोषः। स्नानशक्तस्य चायं निषेधः। अशक्तस्य तु 'अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम्' इति जाबालिना विहितमेव ॥ ८२ ॥

केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ।
शिरःस्नातश्च तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ ८३ ॥

 केशग्रहानिति ॥कोपेन केशग्रहप्रहारौ शिरसि वर्जयेत् । कोपनिमित्तत्वाच्चात्मनः परस्य च प्रतिषेधः । अतएव सुरतसमये कामिनीकेशग्रहस्यानिषेधः । सशिरस्कस्नातस्य तैलेन न किंचिदप्यङ्गं स्पृशेत् । अथवा तैलेनेति काकाक्षिवदुभयन्त्र संबध्यते । तैलेन शिरःस्नातः तैलेन पुनः किंचिदप्यङ्गं न स्पृशेत् । अतो रात्रौ शिष्टानामतैलशिरःस्नातानां तैलेन पादाभ्यङ्गसमाचरणमविरुद्धम् ॥ ८३ ॥

न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४ ॥

 न राज्ञ इति ॥ राजन्यशब्दः क्षत्रियवचनः । अक्षत्रियप्रसूतस्य राज्ञो धनं न प्रतिगृह्णीयात् । राजतोधनमन्विच्छेदित्युक्तं तस्यायं विशेष उक्तः सूनाचक्रध्वजवतामिति । सूनावतां चक्रवतां ध्वजवतां च। सूना प्राणिवधस्थानं तद्यस्यास्तीति स सूनावान्पशुमारणपूर्वकमांसविक्रयजीवी । चक्रवान्बीजवधविक्रयजीवी तैलिकः । ध्वजवान्मद्यविक्रयजीवी शौण्डिकः । वेशः पण्यस्त्रिया भृतिः तया यो जीवति स्त्री पुमान्वा स वेशवान् । एतेषां च न प्रतिगृह्णीयात् ॥ ८४ ॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमो वेशो दशवेशसमो नृपः॥८५॥

 दशसूनेति ॥ गोविन्दराजस्तु 'दशवेश्यासमो नृपः' इति पठति । मेधातिथिप्रभृतयः प्राञ्चो 'दशवेशसमो नृपः' इति पठन्ति ।