पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१४५
मन्वर्थमुक्तावलीसंवलिता।

स्तम्बवचनान्निष्प्रयोजनं मृल्लोष्ठमर्दनं नखैश्च तृणच्छेदनं न कुर्यात् । ननु 'न कुर्वीत थाचेष्टाम्' इत्यनेनैवास्यापि प्रतिषेधसिद्धौ दोषभूयस्त्वं प्रायश्चित्तगौरवं च दर्शयिविशेषेण निषेधः । अत एवात्रानन्तरं लोष्ठमर्दीति निन्दिष्यति । दृष्टादृष्टफलद्वन्यं च कर्म न कुर्यात् । ननु 'न कुर्वीत वृथाचेष्टाम्' इत्यनेन पुनरुक्तिः । उच्यते। दहव्यापारश्चेष्टा स वृथाचेष्टाशब्देन निषिद्धः, अनेन तु निष्फलं मनोग्राह्यादिसंकल्पात्मकं कर्म मानसं निषिध्यते । यच्च आयत्यामागामिकाले कर्मासुखावहं यथाऽजीर्णे भोजनादि तदपि न कुर्यात् ॥ ७० ॥

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः।
स विनाशं व्रजत्याशु मूचकोऽशुचिरेव च ॥ ७१ ॥

 लोष्ठमर्दीति ॥ लोष्ठमर्दयिता तृणच्छेत्ता नखखादिता च यो मनुष्यस्तथा सूचकः खलो यः परस्य दोषानसतः सतो वा ख्यापयति बाह्याभ्यन्तरशौचरहितः शीघ्रमेते देहधनादिना विनश्यन्ति ॥ ७१ ॥

न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ ॥

 न विगार्ह्य कथामिति ॥ न चाभिनिवेशेन कथां शास्त्रीयेष्वर्थेषु लौकिकेषु वा कुर्यात्, केशकलापाद्वहिर्माल्यं न धारयेत् । गवां च पृष्ठेन यानं सर्वथेति प्रवेण्यादिव्यवधानेनाप्यधर्मावहम् । पृष्ठेनेत्यभिधानादाकृष्टशकटादिना न दोषः ॥ ७२ ॥

अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ७३ ॥

 अद्वारेण चेति ॥ प्राकाराद्यावृतं गृहं च द्वारव्यतिरिक्तप्रदेशेन प्राकारादिलङ्घनं कृत्वा न विशेत् । रात्रौ च वृक्षमूलावस्थानं दूरतस्त्यजेत् ॥ ७३ ॥

नाक्षैः क्रीडेत्कदाचित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ७४ ॥

 नाक्षैरिति ॥ ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमित्यभिधानादात्मोपानहौ पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । शय्याद्यवस्थितश्च न भुञ्जीत । हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत ॥ ७४ ॥

सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ ।
न च नग्नः शयीतेह न चोच्छिष्टः क्वचिद्व्रजेत् ॥ ७५ ॥

 सर्वमिति ॥ यत्किंचित्तिलसंमिश्रं कृसरमोदकादि तदस्तमितेऽर्के नाद्यात् । उपस्थाच्छादनवासोरहितो नेह लोके सुप्यात् । उच्छिष्टस्तु नान्यतो गच्छेत् ॥७५॥ मनु० १३