प्रबोधयेत् । रजस्वलया संभाषणं न कुर्यात् । यज्ञं चाकृतावरणोऽनृत्विक् न गच्छेत् । दर्शनायेच्छया गच्छेत् । 'दर्शनार्थं कामम्' इति गौतमवचनात् ॥ ५७ ॥
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ । |
अग्न्यगार इति ॥ अग्निगृहे गवां निवासे ब्राह्मणानां गवां समीपे स्वाध्यायभोजनकालयोश्च दक्षिणपाणिं सबाहुं वासस उद्धरेद्बहिष्कुर्यात् ॥ ५८ ॥
न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित् । |
न वारयेदिति ॥ गां जलं क्षीरं वा पिबन्तीं न निवारयेत् । दोहनार्थवारणादन्यत्र निषेधः । नापि परकीयक्षीरादि पिबन्तीं तस्य कथयेत् । न चेन्द्रधनुराकाशे दृष्ट्वा निषिद्धदर्शनदोषज्ञः कस्यचिद्दर्शयेत् ॥ ५९ ॥
नाधार्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् । |
नाधार्मिक इति ॥ अधार्मिक इत्यनेन यत्राधार्मिका वसन्ति न तत्र वासो युक्तः । यत्र वा निन्दितदुश्चिकित्सितव्याधिपीडिता बहवो जनास्तत्र भृशमत्यर्थं वासो न युक्तः । पन्थानमेकः कदापि न गच्छेत् । पर्वते च दीर्घकालं न वसेत्॥६०॥
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । |
न शूद्रराज्य इति ॥ यत्र देशे शूद्रो राजा तत्र न वसेत् । अधार्मिकजनैश्च बाह्यतः परिवृते ग्रामादौ न वसेदित्यपुनरुक्तिः । पाषण्डिभिश्च वेदबाह्यलिङ्गधारिभिर्वशीकृते चाण्डालादिभिश्चान्त्यजैरुपद्रुते न वसेत् ॥ ६१ ॥
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् । |
न भुञ्जीतेति ॥ उद्धृतस्नेहं पिण्याकादि न भुञ्जीत । अतितृप्तिं वारद्वयेऽपि न कुर्यात् । 'जठरं पूरयेदर्धमन्नैर्भागं जलेन च । वायोः संचरणार्थं तु चतुर्थमवशेषयेत् ॥'इत्यादिविष्णुपुराणवचनात् । सूर्योदयकाले सूर्यास्तसमये भोजनं न कुर्यात् । प्रातराशितोऽतितृप्तः सायं न भुञ्जीत ॥ ६२ ॥
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । |
न कुर्वीतेति ॥ दृष्टादृष्टार्थशून्यं व्यापारं न कुर्यात् । अञ्जलिना च जलं न पिबेत् । ऊर्वोरुपरि विन्यस्य मोदकादीन्न भक्षयेत् । असति प्रयोजने किमेतदिति जिज्ञासा कुतूहलं तन्न कदाचित्कुर्यात् ॥ ६३ ॥