पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[ अध्यायः ४
मनुस्मृतिः।

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विमो जीवेदनापदि ॥२॥

 अद्रोहेणेति ॥ परस्यापीडा शिलोछायाचितादिरद्रोहः ईषत्पीडा याचितादिरल्पद्रोहः नतु हिंसैव द्रोहः तस्या निपिद्धत्वात् । अद्रोहेण तदसंभवेऽल्पद्रोहेण या वृत्तिर्जीवनोपायः तदाश्रयणेन भार्यादिभृत्यपञ्चयज्ञानुष्टानयुक्तो ब्राह्मणो नतु क्षत्रियादिरनापदि जीवेत् । आपदि दशमे विधिर्भविष्यति । अयं च सामान्योपदेशो याजनाध्यापनविशुद्धप्रतिग्रहादिसंग्रहार्थः । वक्ष्यमाणर्तादिविशेषमात्रनिष्ठत्वे संकुचितस्वरसत्वहानिरनधिकारार्थत्वं याजनादेर्वृत्तिप्रकरणानिवेशश्व स्यात्तयापि जीवेत्॥२॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥३॥

 यात्रेति ॥ यात्रा प्राणस्थितिः शास्त्रीयकुटुम्बसंवर्धननित्यकर्मानुष्ठानपूर्वकप्राणस्थितिमात्रार्थं न भोगार्थं स्वसंबन्धितया शास्त्रविहितार्जनरूपैः कर्मभिर्ऋतादिवक्ष्यमाणैः कायक्लेशं विनाऽर्थसंग्रहं कुर्यात् ॥ ३ ॥  कैः कर्मभिरित्यत्राह-

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ४ ॥

ऋतामृताभ्यामिति ॥ अनापदीत्यनुवर्तते । ऋतादिभिरनापदि जीवेत् । सेवया त्वनापदि कदापि न वर्तेत ॥ ४ ॥  अप्रसिद्धत्वाद्दतादीनि व्याचष्टे-

ऋतमुञ्छशिलं ज्ञेयममृतं स्सादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥५॥

 ऋतमुञ्छशिलमिति ॥ अबाधितस्थानेषु पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु यत्र यत्रौपधयो विद्यन्ते तत्र तत्राङ्गुलिभ्यां एकैकं कणं समुच्चयित्वेति बौधायनदर्शनात् एकैकधान्यादिगुडकोच्चयनमुञ्छः । मञ्जर्यात्मकानेकधान्योच्चयनं शिलः, उञ्छश्च शिलस्चेत्येकवद्भावः तत्सत्यसमानफलत्वाद्दतमित्युच्यते । अयाचितोपस्थितममृतमिव सुखहेतुत्वादमृतं । प्रार्थितं पुनर्भैक्षं भिक्षासमूहरूपं मरणशरणपीडाजननान्मृतम् । एतच्च साग्नेर्गृहस्थस्य भैक्षमपक्वतण्डुलादिरूपं नतु सिद्धान्नं पराग्निपक्केन स्वाग्नौ होमाभावात् । कर्षणं च भूमिगतप्रचुरप्राणिमरणनिमित्तत्वाद्बहुदुःखफलकं प्रकर्षण मृतमिव प्रमृतम् ॥ ५ ॥

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ६॥